Book Title: Navpada Prakaran Author(s): Devguptasuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ श्री नवपद लघुवृत्ति. ॥२॥ Jain Education ॥ ( लघुवृत्तियुत) श्री नवपदप्रकरणस्योपोद्घातः ॥ ॥ ॐ नमः सर्वज्ञाय ॥ शेमुषीधनाः ! स्वीक्रियतामिदमुपदीक्रियमाणं ग्रन्थरत्नं, ग्रन्थेषु उत्कृष्टता चास्य पाठकश्रावकाणां प्रस्तुतग्रन्थावलोकनात् स्पष्टीभविष्यति तदत्र न किञ्चिद् वर्ण्यते, नहि हस्तकङ्कणदर्शने आदर्शस्योपयोगः कापि तथापि रत्नस्य केवलक्ष्य न तादृशी शोभा उपयोगो वा तादृक् यादृशी शोभा उपयोगच सकञ्चनस्य जगति भवति, तत एव हेतोः कञ्चनसमाना प्रस्तावना निबध्यते ॥ अत्र चिन्तनीयमेतत् यदुत किमस्याभिधानं १ को वा विषयः २ कच मूलकर्त्ता ३ कथ विवरीता ४ कथ गच्छोsप ५ किमर्थं ६ कदा कृतं चेति ७ । तत्र प्रथमं तावत् अभिधानमस्य 'नवपदप्रकरण 'मिति, यद्यपि नवपदशब्देन रूढया श्रीमनि अर्हदादीनि तपोऽन्तानि नवपदानि प्रतीयन्ते तेषां च व्याख्यानपत्र केनापि प्रकारेण भविष्यति इति स्यादाशङ्का, परं तान्युप गीन्यपि आराध्यतमान्यपि च नात्र विवरीतुमिष्टानि, अत्र तु श्रीमत्यामावश्यकचूर्णेौ देशविरतिप्रकरणे "जारिसओ जइभेओ" इत्यादिपूर्वान्तर्गतगाथया यानि अनुव्रतविषयतया नव पदानि प्रतिपादितानि तान्येव विकृतानि इति सार्थकाऽभिधा अस्प ग्रन्थरत्नस्य नवपदप्रकरणमिति, न च वाच्यं सङ्ख्यापूर्वत्वात् नवपदीप्रकरणमिति भाव्यं यथा पञ्चलिङ्गो पञ्चाध्यायीति अत्र त्रिपदबहुव्रीहेरभ्युपगमाद्, यद्वा नत्र पदानि अस्मिन् इति बहुव्रीहेरभ्युपगमात् समाहारस्य द्विगोश्चात्र वि क्षेत्र नाति पञ्चम.ङ्गलं पञ्चमङ्गलमहाश्रुतस्कन्धः षट्स्थानकम् इत्यादिवत् नात्र दोषलेशः, प्रकरणता चास्य श्रावकधर्म्मविधेरपेक्षथा, न तु अन्यस्य For Private & Personal Use Only उपोद्घात. ॥ २ ॥ w.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 138