Book Title: Nandanvan Kalpataru 2010 04 SrNo 24 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ तदुष्परिणामानि व्यक्त्या कुटुम्बेन परिवारेण समाजेन ग्रामेण नगरेण राज्येन राष्ट्रेण चाऽप्युपभोक्तव्यानि भवन्ति । किमत्र करणीयम् ? कोऽत्रोपायः ? - ननु एक एव - जनमानस एव यदि हिताहितविवेकः सदसतोर्भानं वा जागृयात् तद्देव दुष्परिणामेभ्यो रक्षणं स्यात् । एतस्य दायित्वमस्ति शिक्षणजगतः शिक्षकजगतश्च । रुग्णस्य रोगनिवारणायैव केवलं न यतते सुचिकित्सकः किन्तु रोगप्रतिकारिकां तस्य शक्तिं स वर्धयति । तस्यां वृद्धिं गतायां रोगस्त्वपगच्छत्येव सहैव भविष्यति रोगसम्भावनाऽपि व्यपगच्छति । औषधेन रोग एव निराक्रियते चेन्न तेन लाभविशेषः कश्चिज्जायते । यतो रोगोत्थानं पुनस्तत्र सम्भवत्येव । अतो रोगप्रतिकारिकायाः शक्तेर्वृद्धिरेवाऽत्रोपायः । तथैव शिक्षणमपि यदि विविधविषयाणां बोधे ज्ञाने वैव पर्यवसितं भवेत् तदा तच्छिक्षणमेव न भवति । किन्तु तेन विविधानां विषयाणां माध्यमेन विद्यार्थिनां विवेकशक्तिहिताहितबुद्धिश्च प्रकटितव्या येन यत्र कुत्राऽपि ते गच्छन्तु न कदापि ते स्वाहितं समाचरिष्यन्ति । विवेक एव चक्षुः खलु ? "एको हि चक्षुरमलं सहजो विवेकः" इति । गुरुर्ज्ञानप्रदानेन न केवलं प्रकाशं वितनोति किन्तु नेत्रमप्युद्घाटयति । नेत्रोद्घाटन एव प्रकाश उपयोगी भवति नाऽन्यथा । अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥ यथार्थगुरोर्लक्षणमत्र प्रदत्तमस्ति । नेत्रोन्मीलनमेव गुरोः कार्यं दायित्वं च । तन्माध्यममस्ति ज्ञानाञ्जनशलाका । केवलं ज्ञानदायक एव न गुरुर्भवति किन्तु ज्ञानाञ्जनेन नेत्रं-दृष्टिं च य उद्घाटयति स गुरुः । अञ्जनं नाम प्राणप्रतिष्ठा । यः प्राणवान् भवति स तेजस्वी भवति । यः प्राणवन्तं करोति स गुरुः । शिक्षकोऽपि गुरुरेव । तेन वा तथैव भवितव्यम् । एतादृशं शिक्षकं यदा समाजः प्राप्स्यति तदनन्तरमेव व्यक्तिर्वा राज्यं वा राष्ट्र वाऽपि यथार्थां प्रगति साधयिष्यति । एतादृशः शिक्षक एव सत्संस्काराणां सिञ्चनं करिष्यति। अतः 'साक्षरता अभियान' - इत्यतोऽपि 'शिक्षकता अभियान' इत्येतदधिकमावश्यकमस्ति । एतादृशां शिक्षकाणां निर्माणमेवाऽस्माकं प्रथमं कर्तव्यम् । एकस्मिन्नेवाऽस्मिन् पुरुषार्थे बह्वीनां समस्यानां समाधानं निहितमस्ति । करिष्यामः खलु वयमेनं पुरुषार्थम् ? कीर्तित्रयी Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 132