Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मूलाचारेचतुर्विधाहारस्वरूपमाह - असणं खहप्पसमणं पाणाणमणुग्गहं तहा पाणं । खादति खादियं पुण सादंति सादियं भणियं ॥ अशनं क्षुधाप्रशमनं प्राणानामनुग्रहं तथा पानं । खाद्यते खाद्यं पुनः स्वाद्यते स्वाद्यं भणितं ॥ १४७॥
४८८
अशनं क्षुदुपशमनं बुभुक्षोपरतिः प्राणानां दशप्रकाराणामनुग्रहो येन तत्तथा खाद्यत इति खाद्यं रसविशुद्धं लडुकादि पुनरास्वाद्यत इति प्रास्वाद्य मेला ककोलादिकमिति भ तमेवंविधस्य चतुर्विध/ हारस्य प्रत्याख्यानमुत्तमार्थप्रत्याख्यानमिति ।। १४७ ॥
चतुर्विधस्याहारस्य भेदं प्रतिपाद्याभेदार्थमाह-सव्वोपि य आहारो असणं सव्वोवि वुच्चदे पाणं सव्वोवि खादियं पुण सव्वोवि य सादियं भणियं सर्वोपि च आहारः अशनं सर्वोपि उच्यते पानं । सर्वोपि खाद्यं पुनः सर्वोपि च स्वाद्यं भणितं ॥ १४८
सर्वोऽप्याहारोऽशनं तथा सर्वोऽप्याहारः पानमित्युच्यते तथा सर्वोऽप्याहारः खाद्यं तथा सर्वोऽप्याहारः स्वाद्यमिति भणित एवं चतुर्विधस्याप्याहारस्य द्रव्यार्थिकनयापेक्षयैक्यं श्राहारत्वेनामेदादिति ।। १४८ ॥
Loading... Page Navigation 1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522