Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मूलाचारे
दाद्याश्रितस्य गुप्यादिव्यतिक्रमेण च यत्कर्म तस्य कर्मणो निघातनाय कायोत्सर्गमधितिष्ठामि कायोत्सर्गेण तिष्ठामीति संबन्ध:, अथ वैकपदस्थितस्यापि रागद्वेषाभ्यामतीचारो भवति यतः किं पुनर्भ्रमति ततो घातनार्थं कर्मणां तिष्ठामीति ।। १५७ ।।
२४४६४
पुनरपि कायोत्सर्गकारणमाह; - जे केई उवसग्गा देवमाणुसतिरिक्खचेदणिया । ते सव्वे अधिआसे काओसग्गे ठिदो संतो || ये केचन उपसर्गा देवमानुषतिर्यगचेतनिका: । तान् सर्वान् अभ्यासं कायोत्सर्गे स्थितः सन् ॥ १५८
देवमनुष्य तिर्यक्कृता अचेतना विद्युदशन्यादयस्तान् सर्वानध्यासे सम्यग्विधानेन सहेऽहं कायोत्सस्थितः सन् उपसर्गेष्वागतेषु कायोत्सर्गः कर्त्तव्यः कायोत्सर्गेण वा स्थितस्य यद्युपसर्गाः समुपस्थिताः भवन्ति तेऽ पि सहनीया इति ॥ १५८ ॥
कायोत्सर्गप्रमाणमाह-
-
संवच्छरमुकस्सं भिण्णमुहुत्तं जहण्णयं होदि । सेसा काओसग्गा होंति अणेगेसु ठाणेसु ॥ १५९
Loading... Page Navigation 1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522