Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 515
________________ ५१० मूलाचारे म्मतं सर्वं समस्तमिति, एवंविशिष्ट ध्यानं कायोत्सर्गेण स्थितस्य योग्यमिति ॥ १८३ ॥ अपशस्तमाह, - परिवारइढिसक्कारपूयणं असणपाणहेऊ वा । लयणसयणासणं भत्तपाणकामट्ठहेऊ वा ॥ १८४ परिवारऋद्धिसत्कारपूजनं अशनपानहेतोर्वा । लयनशयनासनभक्तपानकामार्थहेतोर्वा ॥ १८४ ॥ परिवारः पुत्रकलत्रादिकः शिष्यसामान्यसाधुश्राव कादिकः ऋद्धिर्विभूतिर्हस्त्यश्वद्रव्यादिकस्य सत्कारः कार्यादियतः करणं पूजनमर्वनं प्रशनं भक्तादिकं पानं सुगन्धजलादिकं हेतुः कारणं वा विकल्पार्थः, लयनं उत्कीर्णपर्वतमदेश: शयनं पर्यकतूलिकादिकं शासनं वेत्रासनादिकं भक्तो भक्तियुक्तो जन आत्मभक्ति प्राणः सामर्थ्य दशप्रकाराः प्राणा वा कामो मैथुनेच्छा अर्थी द्रव्यादिप्रयोजनं, इत्येव - कारणेन कायोत्सर्ग यः करोति परिवारनिमित्तं विभृतिनिमिचं सत्कारपूजानिमित्तं चाशनपाननिमित्तं वा लयनासननिमित्त मम भक्तो जनो भवत्विति मदीया भक्तिर्वा ख्यातिं गच्छत्विति मदीयं प्राणानर्थ्य लोको जानातु मम प्राणरक्षको देवो वा मनुष्यो वा भवस्विति हेतो यः कायोत्सर्ग करोति, कामहेतुरर्थहेतुश्च यः कायोत्सर्गः स सर्वोऽप्यप्रशस्तो मनःसंकल्प इति ॥ १८४ ॥

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522