Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (४५) एवमेव मनसा विभावयंश्चिन्तयन्भवहरं हरं हरिम् । प्राप्य कायमुपकारकं नरो धर्ममेकमवलम्बते बुधः ॥२०॥ शुलमुद्रगदोग्रकर्तरीहस्तहिंसककृतान्तकिङ्करात् । ध्वान्तवातसखतप्तलोहजप्रेयसीसमुपगृढभीतिदात ॥२१॥ क्रन्ददातरजीवभैरवाद्रौरवात्पबलपातनोचयात् । बिभ्यतो भृशममी च धार्मिका धूर्जटौ निदधते मनो दृढम् ॥२२॥ तत्समाश्वसिहि विश्वंशजे ! रक्षितस्तव सुतोह्यसंशयम् । न ब्रुवन्त्यनृतमुत्तमा वचो नोचलन्ति गिरयश्च जातुचित् ॥२३॥ कुन्तिभोजदुहितुश्च सुनृतामेवमेव गिरमग्रजाङ्गना । सा निशम्य निरधारयच्च तनन्दनानमरविक्रमान्हदा ॥२४॥ कुन्त्यवोचदिति भीममाश्रवं प्रश्रयान्वितमुपागतं सुतम् । त्वं वृकोदर! दरं द्विजन्मनो भिन्द्धि राक्षसबलीभविष्यतः ॥२५॥ श्रूयते प्रतिगृहं बकासुरः प्रत्यहं मनुजमेकमत्ति यत् । तदुरात्मनि हते च नैऋते निति नगरमेष्यति ध्रुवम् ॥२६॥ त्वद्भुजौ समदशत्रुशातनौ विम एष शरणागतो यतः । सैव भूतिरिह सद्विपद्भिदा या करोति बलमार्तरक्षि यत् ॥२७॥ सोऽभ्यनन्दददसीयभाषितं भीम एष च युधिष्ठिरोऽर्जुनः ।। मद्रराजतनयामुतौ च तो साध्विदं वचनमुक्तमित्यनः ॥२८॥ विद्यया विजितवादिवृन्दया दोर्बलेन बहुशत्रुशातिना । स्पर्शनेन हतयाचकापदा भाग्यमाज इह बिभ्रते श्रियम् ॥२९॥ श्येनवजहि बकं बकासुरं जग्धमानुषझषामिषं रूपा। भीमसेन! भुजभीमविक्रमेत्यब्रवीच यमनन्दनोऽनुजम् ॥३०॥ सत्वरं नयत रे बुभुक्षितो राक्षसो नरकरं कुराबहिः। अन्नमाहितमनस्स्वनलपकं मानुषैः प्रतिगृहं च याचितम् ।३।। कुञ्जराशनतरौ श्मशानजे क्रोधरक्तनयनः स तिष्ठति । इत्थमस्रपवचो निशम्य च द्रागनस्तदधिरुढवान्गदी ॥३२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90