________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (४५) एवमेव मनसा विभावयंश्चिन्तयन्भवहरं हरं हरिम् । प्राप्य कायमुपकारकं नरो धर्ममेकमवलम्बते बुधः ॥२०॥ शुलमुद्रगदोग्रकर्तरीहस्तहिंसककृतान्तकिङ्करात् । ध्वान्तवातसखतप्तलोहजप्रेयसीसमुपगृढभीतिदात ॥२१॥ क्रन्ददातरजीवभैरवाद्रौरवात्पबलपातनोचयात् । बिभ्यतो भृशममी च धार्मिका धूर्जटौ निदधते मनो दृढम् ॥२२॥ तत्समाश्वसिहि विश्वंशजे ! रक्षितस्तव सुतोह्यसंशयम् । न ब्रुवन्त्यनृतमुत्तमा वचो नोचलन्ति गिरयश्च जातुचित् ॥२३॥ कुन्तिभोजदुहितुश्च सुनृतामेवमेव गिरमग्रजाङ्गना । सा निशम्य निरधारयच्च तनन्दनानमरविक्रमान्हदा ॥२४॥ कुन्त्यवोचदिति भीममाश्रवं प्रश्रयान्वितमुपागतं सुतम् । त्वं वृकोदर! दरं द्विजन्मनो भिन्द्धि राक्षसबलीभविष्यतः ॥२५॥ श्रूयते प्रतिगृहं बकासुरः प्रत्यहं मनुजमेकमत्ति यत् । तदुरात्मनि हते च नैऋते निति नगरमेष्यति ध्रुवम् ॥२६॥ त्वद्भुजौ समदशत्रुशातनौ विम एष शरणागतो यतः । सैव भूतिरिह सद्विपद्भिदा या करोति बलमार्तरक्षि यत् ॥२७॥ सोऽभ्यनन्दददसीयभाषितं भीम एष च युधिष्ठिरोऽर्जुनः ।। मद्रराजतनयामुतौ च तो साध्विदं वचनमुक्तमित्यनः ॥२८॥ विद्यया विजितवादिवृन्दया दोर्बलेन बहुशत्रुशातिना । स्पर्शनेन हतयाचकापदा भाग्यमाज इह बिभ्रते श्रियम् ॥२९॥ श्येनवजहि बकं बकासुरं जग्धमानुषझषामिषं रूपा। भीमसेन! भुजभीमविक्रमेत्यब्रवीच यमनन्दनोऽनुजम् ॥३०॥ सत्वरं नयत रे बुभुक्षितो राक्षसो नरकरं कुराबहिः। अन्नमाहितमनस्स्वनलपकं मानुषैः प्रतिगृहं च याचितम् ।३।। कुञ्जराशनतरौ श्मशानजे क्रोधरक्तनयनः स तिष्ठति । इत्थमस्रपवचो निशम्य च द्रागनस्तदधिरुढवान्गदी ॥३२॥
For Private and Personal Use Only