Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२) श्रीशृङ्गारमण्डनम्. सदादर्शो दृश्यो युवजनमुखाम्भोरुहकुलं
सहासं संतन्वन्नलमखिलदोषात्ययरुचिः । समुद्वैलानन्दाम्बुधिमधि परिप्लावितजग
नवीनस्तन्वङ्ग्या विशदबदनेन्दुर्विजयते ॥१०॥ सुमुखीमुखवारिजन्मना स्मितभाजा घुवलोचनालिनः । यदहो बहुशो बबन्धिरे तदिहान्धकरणं स्मरव्रतम् ॥११॥ स्मरमोहमयीममी तमी तमसस्तोममुचा रुचा कचाः। रचयन्त्यतिविस्तरं दिनं वदनेन्दुद्युतयो मृगीदृशः ॥१२॥ हरिणीसदृशा दृशाच्छवपि नीत्वा विपिने निवेशिता । तपतस्तपनस्य तेन सा सलिलानीप्सति नाम धामनि ॥१३॥ अनिमिषैः समिरैरपि लोचनैर्मुगदृशामिह यः परिपीयते । तममृतं सुकृतैः परितो भृतं कथयताममृतं तदपाकृतम् ॥१४॥ जानन्तु यदि जानन्ति देवा एवान्तरं द्वयोः । प्रेयसीभिः प्रियालापात्पीयूषं न पुनः पृथक् ॥१५॥ सच्छायः सुरसाल एष सुदतीलोको भुजावल्लरी
लोलश्रीरधरप्रवालललितः पत्रावलीलीलया । शालीसद्धिजराजिराजिततरः पीनस्तनश्रीफलः
शश्वद्यस्य वशंवदोऽस्ति सुरतेऽत्याकासते तेन किम् ॥१५॥ रतिरतिपत्योः क्रीडाकनकगिरी कामिनिकुचद्वन्द्वम् । यौवनविधिना विहिताविह मेषं पश्यतोऽग्रतः किं स्यात् ॥१७] तीर्थ मन्मथदैवतं शुचिरसस्रोतस्विनी संनम
नाभ्यावर्त्तवती घनोन्नतकुचोपासीनचक्रद्वया । लावण्यत्रिवलीतरङ्गविलसद्रोमावलीशैवला ।
बालाऽऽविष्कुरुते हगञ्चलचलन्मीना नदी नादरम्॥१८॥ इदमुरुयुगलजनने कदलीकरणं कृता न केनापि । यदकदलीकरणं सरतप्तानामत्र दृश्यते सुदृशि! ॥१९॥
For Private and Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90