Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४) श्रीकाव्यमण्डनम्. इत्युदीक्ष्य रुदतीं द्विजस्त्रियं कुन्व्यवोचदनुफम्पयेति सा । दुःखिता रुदितहेतुवेदिनी मा रुदस्त्वमनघे ! वचः शृणु ॥७॥ एक एव तनयोऽस्ति तेऽमधे! पञ्च सन्ति मम सुनवो यतः । त्वं बलीकुरु बलीयसे सुतं रक्षसे स्वसुतमोचनाय तत् ॥८॥ तनिशम्य वचनं द्विजागना स्वां विमृज्य नयनाम्बुसन्ततिम् । साऽभ्यधादिति च पाण्डुगहिनी माभिधा इति पतिव्रतोत्तमे !।९। आर्यिके ! निजकजीवगुप्तये येऽन्यजीवहननं प्रकुर्वते । ते पतन्ति निरये तिजूर्तये न भुवा तनुरियं हि देहिनाम् ॥१०॥ नन्ति ये सकलजीवमण्डलं. पूजयन्ति खलु लिङ्गमैश्वरम् । तोषयन्ति न हि ते महेश्वरं सर्वजीवमयमामनन्ति तम् ॥११॥ मातरोधि ननु जीवपुत्रका भाग्यभागसि हताघसन्तते । पूर्वजन्मचितपातकवना संत्यजामि निजजीवितं क्षणात् ॥१२।। तामुवाच पुनरेव पाण्डवोदभूतिभूमिरनुकम्पयेति सा। न प्रमाणवचनं त्वयोदितं ब्राह्मणि! प्रबलशोकया शृणु ॥१३।। गोग्रहे शरणगस्य रक्षणे स्वामिनोर्थमतिघोरसङ्गरे । ये समुज्झितनिजासवो नराः प्राप्नुवन्ति खलु ते परां गतिम् ।१४। खं शिविः पलमदाचिरप्यस्थिसञ्चयमसारसंमृतौ । सयशः कुमुदकुन्दनिर्मलं स्थास्नु च प्रविदधेऽधिविष्टपम् ॥१५॥ अम्बुबुबुदवदम्बुदालिवच्छकार्मुकवदिन्द्रन,लवत् । चश्चलास्फुरणनभश्चरप्रस्फुरनगरवन्महोर्मिवत् ॥१६॥ स्वप्नवच्च मृगतृष्णिकाम्बुवत् क्षुद्रकाद्रिजनदाम्बुपूरवत् । पद्मिनीदलगतोदबिन्दुवत्प्रौद्भवद्गगनधूमधामवत् ॥१७॥ सान्ध्यरागवदथोचकैरवश्यायविग्रहतमासमूहवत् । कामकलिकलहाकुलीभवत्कामिनीस्तनविशीर्णहारवत् ॥१८॥ भ्रातृमातापितपुत्रवान्धवप्रेयसीप्रभृतयो विभूतयः । खादयश्च विषया हूया गजा भूरयो निमिषभरा इमे ॥१९॥
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90