Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 222
________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्रं प्रारभ्यते M ॥१८॥ बत एकं बदरीफलोपमं स्त्रीशरीरं वीक्ष्य को न भोक्तुमुत्सहते ? यतः-तटाकवारि ताम्बूलं । स्त्रीशरीरंच यौवने ॥ को न पातुं न भोक्तुं नो । विलोकयितुमुत्सुकः ॥१॥ मम तु प्राणत्यागेऽपि शीलरक्षणं वरं, यदस्मिन्संसारे शीलादपरं परमपवित्रमकारणमित्रं नास्ति। यत:-निर्धनानां धनं शील-मनलंकारभूषणं ॥ विदेशे परमं मित्रं । प्रेत्यामुत्र सुखप्रदं॥१॥ पुनः शीलप्रभावतः प्रदिप्तो वह्निः शाम्यति, सादिकभयं नश्यति। यदुक्तमागमे-देवदाणवगंधव्वा । जक्खरखसकिन्नरा॥ बंभयारिं नमसंति। दुक्करं जे करिति तं ॥२॥ जो देइ कणयकोडिं। अहवा कारेड कणयजिणभुवणं॥ तस्स न तत्तियं पुणं । जत्तियं बंभव्वए धरिए ॥३॥ इत्यालोच्य जटिकाप्रभावेण ब्राह्मणवेषं विधाय पाटलिखण्डपुरत: पश्चिमायां दिशि चक्रधरनाम्नो ग्रामस्य समीपे चक्रवरदेवायतने पूजकत्वेन स्थिता, सुखेन कालमतिवाहयति । इतस्तदवसरे सारथिनाऽपि तत्र गल्या सर्वोऽपि कमलवतीसम्बन्धः कुमाराग्रे कथितः, कुमारोऽपि तत् श्रुत्वा सर्वमपि गंधमूषिकामन्त्रादिमाहात्म्यं ज्ञात्वा पश्चात्तापं कर्तुं लग्नो, हा हा ! किमाचरितमधमेन मयाऽध्रमकुलोचितं यनिर्दूषणायाः प्राणप्रियायाः कलङ्को दत्तः, सा मदीया प्राणप्रिया कमलाक्षी कमलवती किं करिष्यति ? किमहं करोमि ? तया विना सर्वमपि शून्यं । यतः-सति प्रदीपे सत्यग्नौ । सत्सु नानामणिषु च ॥ विनैकां मृगशावार्थी । तमोभूतमिदं जगत् ॥१॥ को जानाति ! कदा मम . ॥१८॥

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272