Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंगहः
श्रीजयविजय कथानक
॥१८॥
*************
जनकः परमपदप्राप्तये तीव्रां तपस्यामङ्गीचकार । तद्नु सजयो विजयस्त्रिखण्डां पृथ्वी साधयामास । तदनन्तरं स्वनाम्ना प्रसिद्ध विजयपुरे नृपैरर्धचक्रिवत् सेव्यमानपादपयः श्रीविजयराजो राज्यं चकार । तत्रैकदा केवलज्ञानी तयोः पिताऽऽजगाम । तदनु परमद्धर्या भगवन्तं पितरं सप्रियो जयविजयौ प्रणम्य धर्मदेशनान्ते स्वप्राग्भवं पप्रच्छतुः। अथ केवलीभगवांस्तयोः प्राग्भवं कथयामास। तथाहि
भूतिलके नगरे द्वावृद्धिमन्तौ भ्रातरौ भानुभामौ बभूवतुः । एकदा पित्रोः श्राद्धदिने परमानविटालिनी'मेकां शुर्नी तौ कुदृयामासतुः । तयोर्गृहे श्रान्तो वारिवहन् क्षुधापीडितः साश्रुर्महिष आसीत्, स चागत्य तत्रान्तरे तया सह वार्तालापं स्ववाचा कृतवान् । अथ तं व्यतिकरं प्रेक्ष्य साश्चर्येषु सर्वेषु तत्राऽऽगतं ज्ञानिनं मुनिवरं तौ पृच्छतः स्म । ज्ञान्यपि वदति स्म, यद् भो भो ! युवयोरिमौ पितरौ स्तः । एतौ पूर्व मिथ्यात्वेन सप्तभवेष्वेवं जाती, मानवैर्हतौ च । अस्मिन्त्रष्टमे भवेऽकामनिर्जरया इदानी द्वयोर्जातं जातिस्मरणज्ञानम् । अथ श्राद्धमिदमावाभ्यां, पुनरावयोर्दशेयं ? धिग्मूढतामित्येतो परस्परं प्राहतुः। तस्मान्मिथ्यात्वं त्यक्त्वा सर्वधर्मेभ्यो मुख्यं शिवरं सम्यक्त्वं सादरेण भो! यूयं कक्षी कुरुत, अत्र प्रसङ्गतो मिथ्यात्वसम्यक्त्वयोः किञ्चिद्वर्णनं क्रियते । मिथ्यात्वं परमो रोगो, मिथ्यात्वं परमं विटालिनी-गोटनारी। २ ताडयामासतुः । ३ स्वीकुन्त।
************
*

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272