Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
प्र
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानकं.
॥२७॥
ततो मे प्रवृद्धस्य कोपाग्ने: प्रशमः कथं भविष्यति?, यदि मे नमस्कारं कुर्यात् तदैव मुञ्चेयममून् नान्यथा । ततो मान्त्रिका नृपं प्राह-हे राजन् ! यदि नमस्कारमात्रादस्मादनाच्छुट्यन्ते तदा किं न प्राप्तं? मनसा बिना नमस्कारे कृते सत्यपि नियमस्य भङ्गो नैव भवति । यतः-पुण्यपापयोरुपार्जने मन एव प्राणिनां प्रमाणमस्ति । तथा व्रते राजाभियोगाद्याः षडाकारा अपि सन्ति, क्वापि द्वारं विना भूमिगृहमपि न भवेत् । तथा भूरिलाभाय स्वीकृतव्रतस्यांशमात्रमपि त्यक्तुं सम्भवति । पश्यतु ! प्रत्त्यग्रज्वर्यशनत्यागं करोति, तथाप्यत्र कश्चिद्दोषो लगति चेत् सोऽपि प्रायश्चित्तादिना दूरीभवति, यथा पथ्याशनाल्लानोत्था कृशता। तथा साधुधर्मेऽप्युत्सर्गापवादौ स्तः, श्रावकधर्मे तु सुतराम् । अतो हे राजन् ! एकान्ताग्रहो न योग्योऽस्ति, तथा जैनमत एकान्तवादस्तु मिथ्यात्वं श्रूयते । अतो हे राजन् ! दुराग्रहं त्यक्त्वा नागप्रतिमां प्रणम्य भार्यापुत्रान् प्रोज्जीवय, को बुधः स्वहिते मुह्येत् ? एवं युक्त्या मान्त्रिकेनोक्ते सति विद्वच्छिरोमणी राजा प्रत्युवाच-हे मान्त्रिक! जिनमतानुसारिणा त्वया यदुक्तं तत्सर्व सत्यं परन्तु निर्बलं प्रति तज्ज्ञेयम् । सबलास्तु प्राणान्तेऽपि स्वधर्मेऽल्पमपि दोषं न लगयन्ति । अत्यल्पोऽपि दोषो धर्म निःसारं करोति । किम् कण्टकमात्रेणापि विद्धो मानव: पडनैवं भवति, तथा यस्य शुद्धये प्रायश्चित्तं क्रियते तत् प्रथममेव त्यक्तुं योग्यम् । पक्युक्तं पादं कृत्वा तद्नु प्रक्षालनात्
॥२७॥

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272