SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्र श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं. ॥२७॥ ततो मे प्रवृद्धस्य कोपाग्ने: प्रशमः कथं भविष्यति?, यदि मे नमस्कारं कुर्यात् तदैव मुञ्चेयममून् नान्यथा । ततो मान्त्रिका नृपं प्राह-हे राजन् ! यदि नमस्कारमात्रादस्मादनाच्छुट्यन्ते तदा किं न प्राप्तं? मनसा बिना नमस्कारे कृते सत्यपि नियमस्य भङ्गो नैव भवति । यतः-पुण्यपापयोरुपार्जने मन एव प्राणिनां प्रमाणमस्ति । तथा व्रते राजाभियोगाद्याः षडाकारा अपि सन्ति, क्वापि द्वारं विना भूमिगृहमपि न भवेत् । तथा भूरिलाभाय स्वीकृतव्रतस्यांशमात्रमपि त्यक्तुं सम्भवति । पश्यतु ! प्रत्त्यग्रज्वर्यशनत्यागं करोति, तथाप्यत्र कश्चिद्दोषो लगति चेत् सोऽपि प्रायश्चित्तादिना दूरीभवति, यथा पथ्याशनाल्लानोत्था कृशता। तथा साधुधर्मेऽप्युत्सर्गापवादौ स्तः, श्रावकधर्मे तु सुतराम् । अतो हे राजन् ! एकान्ताग्रहो न योग्योऽस्ति, तथा जैनमत एकान्तवादस्तु मिथ्यात्वं श्रूयते । अतो हे राजन् ! दुराग्रहं त्यक्त्वा नागप्रतिमां प्रणम्य भार्यापुत्रान् प्रोज्जीवय, को बुधः स्वहिते मुह्येत् ? एवं युक्त्या मान्त्रिकेनोक्ते सति विद्वच्छिरोमणी राजा प्रत्युवाच-हे मान्त्रिक! जिनमतानुसारिणा त्वया यदुक्तं तत्सर्व सत्यं परन्तु निर्बलं प्रति तज्ज्ञेयम् । सबलास्तु प्राणान्तेऽपि स्वधर्मेऽल्पमपि दोषं न लगयन्ति । अत्यल्पोऽपि दोषो धर्म निःसारं करोति । किम् कण्टकमात्रेणापि विद्धो मानव: पडनैवं भवति, तथा यस्य शुद्धये प्रायश्चित्तं क्रियते तत् प्रथममेव त्यक्तुं योग्यम् । पक्युक्तं पादं कृत्वा तद्नु प्रक्षालनात् ॥२७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy