Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 262
________________ श्रीजैन श्रीजयविजय कथानकं कथासंग्रहः ॥२४॥ एमममममा कुचितकणशनीवनिष्कास्याः, विचिन्त्यैवं यावन्नृपः स्वभवनमाजगाम, तावन्निजान्तःपुरात्तेषां गुरुं निर्गच्छन्तमीक्षांचक्रे । एतद्वयतिकरं द्रष्यातिशयोद्वेगवन्तं राजानमवधूतो गदति स्म। हे नृप! अस्माकं वचनं कथं मिथ्या भवति, धूर्तसमानेम्वेषु भवान् विश्वासं मा कार्षीत् । पृथ्वीपतिस्तु सन्मार्गानुयायित्वानिजामुत्तमतां प्रकटीकुर्वन् कथयामास, यद् भोः ! साधुष्वेतेषु तादृशं तत्कुकृत्यमत्यन्तमसम्भाव्यम्, भानोस्तमस्तोम इव एतेभ्य एतादृशं कुकृत्यं युगान्तेऽपि कथं सम्भवेत्? कदाचित् साक्षाद् दृष्टत्वात् सत्यं भवेत् तथापि सर्वेषु साधुप्वश्रद्धा न करणीया। कदाचित् कश्चित् सार्थपरिभ्रष्टचौरपाटीरूपः कुत्रचिद् दृश्यते, तर्हि किं सर्वे सार्थाः चौरघाटीरूपा माननीयाः ? । एवं यदि स्वीक्रियते तदा व्यवहारो न चलेत् । अतश्चारित्रवन्तो ये ते तु पूज्या एव, यदि अव्यक्तमतं स्वीक्रियते तदा भो ! निहवता भवेत् । एतच्छुत्वा कलावानवधूतो जनाद-दराजन् ! दृष्टिरागे धमों नास्ति, किन्तु तत्त्वनिर्णये । राजा वदति-भो ! यत् सर्वज्ञेनोक्तं तदेव सत्वं तत्त्वमिति मे निर्णयोऽस्ति, नास्त्यत्र मे संशयः, तेन कथिता च गुरुता जैनसाधूनामेवास्ति। तां पुनर्मिथ्या कुर्वता त्वया सहकवारमपि गदितुंन योग्यम् । राज्ञस्तेन वचनेन कपटमूर्तिनिष्फलप्रयत्नो विलक्षोऽसौ क्वाऽपि जगाम । नृपतिरपि मिथ्यादृष्टित्वातं पुनर्नान्वेषवामाम । एकदा तत्र नृपतिमन्त्रिप्ठ्यादीन् सर्वलोकान् कश्चिदिव्यपुरुष ॥२४॥

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272