Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 236
________________ INS अथनीरणसिंहचरित्रं प्रारभ्यते कथासंग्रहः ॥३२॥ त्वत्प्रतिबोधनार्थमुपदेशमाला कृतास्ति, सा श्रोतव्या। यत:-'जं आणवेइ राया' यदाज्ञापयति राजा तद्वाक्यं प्रकृतयः सामान्यपौरलोकाच शिरसा मस्तकेन वाञ्छन्ति, तद्वद्गुरुवाक्यमपि योजितकरकमलेनैव श्रोतव्यं यतः-'अभिगमणवंदणनमंसणेण' । साधूनां सन्मुखं गमनं, वन्दनं, नमस्कारकरणं, समाधिपृच्छनं, एतैः कृत्वा चिरकालं संचितमपि पापकर्मकस्मिन् क्षणे क्षयं याति। अथान्यदपि- भवसयसहस्सदुल्लहे' भवानां शतसहस्राणि लक्षाणि तेषु दुर्लभे दुःप्रापे जातिर्जन्म, जरा वयोहानिर्मरणं प्राणवियोगस्तद्रूपो यः समुद्रस्तं उत्तारयति यस्तस्मिनैतादृशे जिनवचने हे वत्स ! गुणानामाकर ! क्षणमपि प्रमादो न कार्यः । एवं यावत्कथयति तदवसरे विजयानाम्नी साम्बी रणसिंहनृपजननी साऽपि तत्राऽऽगता, तयाप्युक्तं हे वत्स ! तव जनकेन श्रीधर्मदासगणिना त्वदर्थमियमुपदेशमाला कृताऽस्ति, तां प्रथमतोऽधीष्व, तदर्थ भावय, विभाव्य चाऽन्यायधर्म विमुच्य प्रधानमोक्षसुखमुपार्जय, स्वकीयपितुरादेशं कुरु, एतन्मातृवचनं श्रुत्वा रणसिंहेन तदम्ययनं प्रतिपन्न । प्रथमतः श्रीजिनदासगणयः कथयन्ति, तदनु नृपोऽपि तादृशमेव कथयति, एवं द्वित्रिवारं गणनेन संपूर्णाऽपि तेन तत्कालमधीतोपदेशमाला, तदर्थ चेतसि विचारयन् भावितात्मा संजातो वैराग्यमापनश्चिन्तयति धिग्मां किमाचरितं मयाऽज्ञानवशेन, धन्योऽयं मम पिता, येन ॥३२॥

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272