________________
INS अथनीरणसिंहचरित्रं
प्रारभ्यते
कथासंग्रहः
॥३२॥
त्वत्प्रतिबोधनार्थमुपदेशमाला कृतास्ति, सा श्रोतव्या। यत:-'जं आणवेइ राया' यदाज्ञापयति राजा तद्वाक्यं प्रकृतयः सामान्यपौरलोकाच शिरसा मस्तकेन वाञ्छन्ति, तद्वद्गुरुवाक्यमपि योजितकरकमलेनैव श्रोतव्यं यतः-'अभिगमणवंदणनमंसणेण' । साधूनां सन्मुखं गमनं, वन्दनं, नमस्कारकरणं, समाधिपृच्छनं, एतैः कृत्वा चिरकालं संचितमपि पापकर्मकस्मिन् क्षणे क्षयं याति। अथान्यदपि- भवसयसहस्सदुल्लहे' भवानां शतसहस्राणि लक्षाणि तेषु दुर्लभे दुःप्रापे जातिर्जन्म, जरा वयोहानिर्मरणं प्राणवियोगस्तद्रूपो यः समुद्रस्तं उत्तारयति यस्तस्मिनैतादृशे जिनवचने हे वत्स ! गुणानामाकर ! क्षणमपि प्रमादो न कार्यः । एवं यावत्कथयति तदवसरे विजयानाम्नी साम्बी रणसिंहनृपजननी साऽपि तत्राऽऽगता, तयाप्युक्तं हे वत्स ! तव जनकेन श्रीधर्मदासगणिना त्वदर्थमियमुपदेशमाला कृताऽस्ति, तां प्रथमतोऽधीष्व, तदर्थ भावय, विभाव्य चाऽन्यायधर्म विमुच्य प्रधानमोक्षसुखमुपार्जय, स्वकीयपितुरादेशं कुरु, एतन्मातृवचनं श्रुत्वा रणसिंहेन तदम्ययनं प्रतिपन्न । प्रथमतः श्रीजिनदासगणयः कथयन्ति, तदनु नृपोऽपि तादृशमेव कथयति, एवं द्वित्रिवारं गणनेन संपूर्णाऽपि तेन तत्कालमधीतोपदेशमाला, तदर्थ चेतसि विचारयन् भावितात्मा संजातो वैराग्यमापनश्चिन्तयति धिग्मां किमाचरितं मयाऽज्ञानवशेन, धन्योऽयं मम पिता, येन
॥३२॥