________________
श्रीजैन कथासंग्रहः
अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥३१॥
- निमज्जति, हिंसाद्यानववर्जनं विना कुतो धर्म: ? यदुक्तं-लक्ष्म्या गार्हस्थ्यमक्ष्णा मुखममृतरुचिः
श्यामयाम्भोरुहाक्षी । भर्चा न्यायेन राज्यं वितरणकलया श्रीनृपो विक्रमेण ॥ नीरोगत्वेन काय: कुलममलतया निर्मदत्वेन विद्या। निर्दम्भत्वेन मैत्री किमपि करुणया भाति धर्मोऽन्यथा न॥१॥ अत: कारणादाश्रवो भवहेतुरेव, संवर एव निवृत्तेरसाधारणकारणमिति सिद्धान्तः, ततो हे वत्स ! तवायं सज्जनस्वभावोऽपि कलिपुरुषच्छलेन विपरीतो जातः, परं न युक्तं दुर्जनत्वं, यदुक्तं-वरं क्षिप्तः पाणि: कुपितफणिनो वक्त्रकुहरे । वरं झम्पापातो ज्वलदनलकुंडे विरचितः ॥.वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्य विदुषा ॥१॥ कलिपुरुषकचनेन त्वं पापमति धारयसि, परं न विचारयसि यत्किं दुःषमाकालरूपः कलिर्जल्पति ? अयं कोऽपि दुष्टदेवायुपद्रवो दृश्यते, तेन त्वं छलितोऽसि । अपि च कलिपुरुषोपदेशेन समाचरितानि हिंसादिकर्माणि किं नरकगति न नयन्ति? किं कलौ विषभक्षणेन न म्रियते ? यादृशं समाचरति तादृक् तत्फलं कलावप्यवाप्यते, एतादृक् श्रीजिनदासगणिवचनं श्रुत्वा चक्षुर्विकस्वरं विधाय स न्यग्वदनो बभूव । तदा श्रीजिनदासगणिनोक्तं, हे वत्स ! त्वत्पितृवाक्यं श्रुत्वा प्रतिबोधमवाप्नुहि । कलिपुरुषदर्शनहेतुकं तवच्छलनस्वरूपमवधिज्ञानेन पूर्वमेव विज्ञाय श्रीधर्मदासगणिनाम्ना त्वत्पित्रा
॥३१॥