SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अवनीरणसिंहचरित्रं श्रीजैन कथासंग्रहः प्रारभ्यते ॥३०॥ कृषीवलेनैतादृशोऽन्यायः कृतो; यत् शून्यक्षेत्रे द्विगुणं मूल्यं मुक्त्वा चिर्भटकं गृहीतमतोऽयमचौरः प्रत्यक्षेण मयाप्येतस्य शिक्षा दत्ता यचिर्भटकस्य मस्तकं दर्शितं, अतःप्रभृति यः कोऽप्येतादृशमन्यायं करिष्यति तमपि कष्टे पातयिष्यामि । तावत् श्रेष्ठिसुतोऽपि सजीवो जातः, राज्ञः समीपमागतः, समाहूय स्वाके स्थापितः, अर्जुनस्य बहु सन्मानं दत्तं, पश्चात्कलिपुरुषेण सर्व स्वमाहात्म्यं कथितं, राजन् ! मदीयराज्यमध्ये कथं न्यायधर्माचरणनिमित्तेन दुःखिनं करिष्यामीति कथनेन राजा छलितः, पश्चात्कलिरदृश्यो बभूव । सर्वेऽपि स्वस्थानं गताः, अर्जुनोऽपि स्वस्थानं गतः, राजापि दुर्नीतिदृष्ट्या न्यायधर्म मुक्त्वाऽन्यायाचरणतत्परो बभूव, लोकैर्विचारितं राज्ञः किं संजातं? यदेतादृशमन्यायं करोति, न कोऽपि वारयितुं समर्थः । तदवसरे तादृशं स्वभागिनेयं रणसिंहनृपं दृष्ट्वा प्रतिबोधयितुं श्रीजिनदासगणिनस्तत्रोपवने समवसृताः, नृपोऽपि सपरिवारो वन्दनार्थमागतो विनयपूर्वकमभिवन्द्य करी मुत्कलीकृत्याग्रतः स्थितः, गुरुभिरपि सकलक्लेशनाशिनी देशना प्रारब्धा, भो राजन् ! कलिरूपं दृष्ट्वा त्वदीयं मनश्चलितं, परमस्मिन्नसारे संसारे पुण्यपापनिमित्तानि सुखदुःखानि । यदुक्तंकर्मोदयादवगति-भवगतिमूला शरीरनिवृत्तिः॥ तस्मादिन्द्रियविक्या विषयनिमित्ते च सुखदुःखे॥१॥ प्राणातिपातादीनि पञ्चाश्रवद्वाराणि समाचरन्नयं जीवो नितान्तेन पापकर्मणा लिप्यते, भवसमुद्रे । ॥३०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy