________________
श्रीजैन कथासंग्रहः
अवनीरणसिंहचरित्रं
प्रारभ्यते
मदुद्धारार्थमवधिज्ञानेनागामिस्वरूपं विज्ञाय प्रथमत एवायं ग्रन्थो निर्मितः, तदलमनेन विद्युत्पातचन्चलेन विषयसुखेन । यतः-चला लक्ष्मीचलाः प्राणा-शलं चञ्चलयौवनं ॥ चलाञ्चलेऽस्मिन् संसारे । धर्म एकोहि निश्चलः॥१॥ इति विचार्य गृहमागतो न्यायधर्म पालयन् कियता कालेन कमलवतीपुत्रं राज्येऽधिरोप्य श्रीमुनिचन्द्रान्तिके चारित्रं गृहीतवान्। शुद्धचरणाऽऽराधनेन कालं कृत्वा देवत्वे समुत्पन्नः, पश्चात्कमलवतीपुत्रेणापीयमुपदेशमाला पठिता, सर्वलोकैरपि परस्परं पठिता च; इयमनुक्रमेण पाठयमाना चाद्ययावद्विजयते।
॥ इति श्रीरणसिंहचरित्रं समाप्तम् ॥
॥३३॥