Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 242
________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानक ॥४॥ WLW स्वसुतावपि प्रणिहन्तुं योग्यौ स्तः। यथास्वनाशकदुष्टव्रणयोर्दया कर्तु नोचिता तथैव स्वघातकसुतयोरपि कृपानयोग्या। पूर्वकालीनप्राज्यस्नेहेन तवाहं राज्याधिष्ठायिका देवी हितमिदं कथयामि, ततश्चात्र यथायोग्य कुरु, श्रीमत्यपि गतनिद्रं नृपमागत्य तथैव ब्रूते स्म। ततश्च चिन्तातुरो राजा हृदि विचारयति यत् सूर्यचन्द्राभ्यां ध्वान्तमिव पुरुषोत्तमाभ्यामिदं कथं सम्भवेत् ? अपि च देवदत्तस्वप्नमाप्तवाक्यवन्नैव मिथ्या भवेत्। ततश्च हा? किं करोम्यहं ? कथं वा हन्त ! पुत्री मारयामि ! विषवृक्षोऽपि संवर्थ्य स्वयं छेत्तुमसाम्प्रतम् किं पुनर्मन्दारवृक्षसमावेतादृशौ सुतौ, ततश्चाऽऽशङ्कमानो नृपः पुत्रयोः प्रवेशं निवारयामास। अथ सभास्थानस्थितं भूपतिं नमस्कर्तुमागतौ तौ द्वारपालो निवारयामास, तस्मादियताप्युच्चैनौ तौ तदैव मौनेनैव पश्चानिर्गत्य चिन्तयामासतुः । विनाऽपराधं पृथ्वीपतिः करोत्यनादरमावयोरपि, तेनात्रस्थातुं नोचितमिति चिन्तयित्वा नियतमन्यदेशं यास्याव इति निर्णय कृत्वा च पुनरालोचयतः । हिताहिते भाग्याधीने जानन्कः पतेत्पराधीने ? अपि च परदेशं द्रष्टुमिच्छाप्यावयोः पूर्यतां, भूभर्ताऽपि स्वसुतयोरभिमानितां जानातु । यत:- त्रयस्स्थानं न मुञ्चन्ति, काका: कापुरुषा मृगाः । अपमाने त्यो यान्ति, सिंहाः सत्पुरुषा गजाः॥१॥अपि च नूनं विमातुरेवायं प्रपञ्चः सम्भवति, नतु पितुः । पिताप्येतादृशो ध्रुवं सम्भवेद्वा। परन्तु कोऽपि योग्य उपालंभः स्वामिनो

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272