Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 241
________________ श्रीजैन श्रीजयविजय कथानकं कथासंग्रहः ॥३॥ ************* तथाहि :- बभूव भूरिभूतिभिर्भरितेऽस्मिन्भरतक्षेत्रे स्वमहर्द्धया विश्वानन्ददायकं नन्दिपुरंपुरम् । तत्र नगरे धर्मी न्यायी तथैश्वर्यवान्नाम्ना धर्मो भूपोऽभवत् । तस्य च तिम्रो राज्योऽभवन्, तत्र चैका श्रीकान्ता, द्वितीया श्रीदत्ता, श्रीमती तृतीया च । तत्र प्रथमाया: श्रीकान्ताया जनमाननीयो जय इति नाम्ना पुत्रो बभूव । द्वितीयायाः श्रीदत्तायाः स्वप्रतापेन त्रिजगज्जयी विजय इति नामकः सुतोऽभूत् । अनयोर्दिव्यरूपादिभिर्महद्गुणैः साकं बालवयस्यपि पूर्वस्माद् भवात् सम्यक्त्वं प्रकटीबभूव । यथा कार्पासेन सह कार्पासरागः । तथा तयोश्च तुल्यगुणादिभिरैक्यता प्रसिद्धा बभूव, यथा द्वयोर्नेत्रयोः । स्वभावेन दुष्टमत्याः श्रीमत्या अपि न्यायबुधिर्नयधीरितिनाम्ना सूनुर्बभूव । यथा पञ पकिलोाः । अन्यदा जयविजययोरुपरि परं प्रजानुरागं प्रेक्ष्येर्षालुः श्रीमतीति चिन्तयामास । परस्परं मिलितयोः प्रजामान्ययोरनयोः सतोर्मम पुत्रस्य दासीपुत्रवद्राज्यप्राप्तेराशापि निश्चयेन नास्ति। ततश्च तस्मै भावि हितं किमपि करोमीति विचिन्त्य सा कपटकुटीरामेकां परिव्राजिकां वशीचकार। अथ च सा श्रीमतीवचसा सिद्धचेटकशक्त्या भूपतेरन्तःकरणे स्वप्ने ददौ । हे भूमिपते! एतौ दुर्जयौ जयविजयौ नूतनोत्पन्नौ दैत्याविव त्वामचिरेण हन्तुमिच्छतः, तथा राज्यमपि ग्रहीतुमभिलषतस्ततः १. निद्रायां। मरमरमरमरमर

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272