Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
...
श्रीजैन कथासंग्रहः
STS अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥२२॥
ममाग्रे गमनं विषयमस्ति, परं त्वत्प्रेमशृङ्खलया बद्धं मम मनः पदमपि गन्तुंनोत्सहते, अतः कृपां विधाय मया सार्द्धमागम्यतां, पुनरहं त्वामत्रानेष्याम्यवश्यमिति श्रुत्वा बटुकः प्राह; मम तु प्रत्यहं चक्रधरदेवपूजनं विधेयमस्ति, तत्कथं मया समागम्यते ? अथ च निर्दम्भव्रतधारिणो मम किं तत्रागमने प्रयोजनं ? कुमारेणोक्तं यद्यपि कार्य नास्ति तथापि ममोपरि कृपां विधायाऽऽगन्तव्यमिति कुमारोपरोधतस्तेन प्रतिपन्नं, तेन सार्द्धमग्रतश्चचाल सः, मार्गे गच्छतः कुमारस्य बटुकेन सार्द्धमतीव प्रीतिर्जाता, क्षणमपि तदीयसंगं न मुञ्चति, तेन सहावस्थानमुत्थानं चलनंशयनं शरीरच्छायावत् क्षणमपि तौ न भिन्नौ भवतः, दुग्धजलयोरिव तयोमैत्र्यमभूत् । यदुक्तं-क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः । क्षीरे तापमवेक्ष्य तेन पयसा यात्मा कृशानी हुतः॥ गन्तुं पावकमुन्मनस्तदभवद दृष्ट्वा तु मित्रापदं। युक्तं तेन जलेन शाम्यति पुनमंत्री सतामीदृशी॥२॥ एकदा कुमारः कथयति भो मित्र! मदीयं मनो मम पार्वे नास्ति । तेनोक्तं क्व गतं ? कुमारेणोक्तं; मम वल्लभया कमलवत्या साद, तेनोक्तं; सा कमलवती कगता? कुमारः प्राह; मम मन्दभाग्यस्य गृहे कथमेतादृशं स्त्रीरत्नं तिष्ठति ? मयैव देवविलुप्तचेतसा सा निष्कासिता, सा क्व गता भविष्यति ? बटुकेनोक्तं-सा कीदृशी वर्तते ? बदमेवं खेदं कुरुध । कुमारोऽपि साचलोचनः कथयति, भो मित्र ! तदीया गुणाः कथमेकजिह्वया
॥२२॥

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272