Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
||२४||
पतितुमुद्यतं ज्ञात्वा पुरुषोत्तमनृपो बटुकान्तिकं गत्वा कथयति, भो देव ! त्वदीयं वाक्यं नायभुल्लङ्घयति, ततस्तथा विज्ञप्तिकां कुरु यथायमस्मात्पापान्निवर्त्तते, तदा बटुक कुमारमाह; भो भद्र ! उत्तमकुलोत्पन्नोऽपि त्वं किं नीचकु लोचितं कर्माचरसि ? नैतद्द्घटते तव सदाचारस्य, यतोऽग्निप्रवेशादिनाऽनन्तसंसारवृद्धिः, तत्राऽपि मोहाऽऽतुरेण मरणं बहुदुःखदायि । अंभो मित्र ! त्वया मम पूर्वमुक्तमासीत् यत्त्वां चक्रधरग्रामे समानेष्यामीति, तच्च तव वाक्यमन्यथा जायते, यन्मृतां कमलवतीमनुमतुमभिलषसि तदपि व्यर्थ, जीवः स्वकीयकर्मवशतः परभवं याति, चतुरशीतिलक्षाणि जीवानां योनयः सन्ति, परमेका कर्मानुसारिणी गतिर्भवति । अतो यत्कार्य क्रियते तत्पण्डितेनाऽऽगामिफलविपाकविचारणपूर्वकं विधेयं रभसवृत्त्याऽविमृष्टं विहितं कार्यमायत्यां शल्यवदुःखदाय भवति, ततो निवृत्तो भव तस्मात्साहसात्, यतो जीवन्नरो भद्रशतानि पश्यति । ततो मदीयवार्ता श्रुत्वा यदि स्वप्राणान् पालयिष्यसि तदा कदाचित्कमलवत्या अपि संयोगो भविष्यति । अथ यदि मूढत्वेन प्राणत्यागं करिष्यसि तदा तस्याः संगमो दुर्लभ एव । एतदंबटुकवाक्यश्रवणेन किञ्चित्संजातकमलवतीमिलनमनोरथः कुमारः कथयति स्म, हे मित्र ! किं मदीया प्रिया त्वया दृष्टास्ति ? किं वा जीवन्ति केनापि कथिताऽस्ति ? अथवा ज्ञानबलेन किमपि जानासि ? सा मिलिष्यति वा न
अथश्रीरणसिंहचरित्रं प्रारभ्यते
||२४||

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272