________________
...
श्रीजैन कथासंग्रहः
STS अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥२२॥
ममाग्रे गमनं विषयमस्ति, परं त्वत्प्रेमशृङ्खलया बद्धं मम मनः पदमपि गन्तुंनोत्सहते, अतः कृपां विधाय मया सार्द्धमागम्यतां, पुनरहं त्वामत्रानेष्याम्यवश्यमिति श्रुत्वा बटुकः प्राह; मम तु प्रत्यहं चक्रधरदेवपूजनं विधेयमस्ति, तत्कथं मया समागम्यते ? अथ च निर्दम्भव्रतधारिणो मम किं तत्रागमने प्रयोजनं ? कुमारेणोक्तं यद्यपि कार्य नास्ति तथापि ममोपरि कृपां विधायाऽऽगन्तव्यमिति कुमारोपरोधतस्तेन प्रतिपन्नं, तेन सार्द्धमग्रतश्चचाल सः, मार्गे गच्छतः कुमारस्य बटुकेन सार्द्धमतीव प्रीतिर्जाता, क्षणमपि तदीयसंगं न मुञ्चति, तेन सहावस्थानमुत्थानं चलनंशयनं शरीरच्छायावत् क्षणमपि तौ न भिन्नौ भवतः, दुग्धजलयोरिव तयोमैत्र्यमभूत् । यदुक्तं-क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः । क्षीरे तापमवेक्ष्य तेन पयसा यात्मा कृशानी हुतः॥ गन्तुं पावकमुन्मनस्तदभवद दृष्ट्वा तु मित्रापदं। युक्तं तेन जलेन शाम्यति पुनमंत्री सतामीदृशी॥२॥ एकदा कुमारः कथयति भो मित्र! मदीयं मनो मम पार्वे नास्ति । तेनोक्तं क्व गतं ? कुमारेणोक्तं; मम वल्लभया कमलवत्या साद, तेनोक्तं; सा कमलवती कगता? कुमारः प्राह; मम मन्दभाग्यस्य गृहे कथमेतादृशं स्त्रीरत्नं तिष्ठति ? मयैव देवविलुप्तचेतसा सा निष्कासिता, सा क्व गता भविष्यति ? बटुकेनोक्तं-सा कीदृशी वर्तते ? बदमेवं खेदं कुरुध । कुमारोऽपि साचलोचनः कथयति, भो मित्र ! तदीया गुणाः कथमेकजिह्वया
॥२२॥