________________
श्रीजैन कथासंग्रहः
॥२२॥
गणितुं शक्यन्ते ? सकलगुणभाजनं सा दयिता। अधुना तु तया विना सर्वोऽपि संसार: शून्य एव । परन्तु तव दर्शनेन ममाऽऽह्लादः समुत्पद्यते। तदा बटुकेनोक्तं भो सुंदर ! नैतावान् पश्चात्तापः कार्यः, यद्विधिना निर्मितं तत्को निवारयितुं शक्तः ? यदुक्तं- अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिन्तयति ॥ १॥ अतः किमनेन बहुशोचकरणेनेत्युत्तरं दत्तवान् । अथ बहुभिर्दिनैः कुमारः सोमां पुरीं प्राप, पुरुषोत्तमोऽपि समहोत्सवः सन्मुखमागतः, महताऽऽडम्बरेण जामाता नगरमानीतः शुभलग्ने च स रत्नवतीकरपीडनं करोति स्म । पुरुषोत्तमेन बहुगजाश्वादियौतकं दत्तं । श्वसुरदत्ताऽऽवासे स्थितोऽसौ रत्नवत्या वैषयिकं सुखमनुभवन्नेकदा रात्रौ रत्नवत्या पृष्टः, भो प्राणनाथ ! सा कमलवती कीदृश्यभूत् ? या गतापि भवतां चित्तं न मुञ्चति । अथ पुनर्मदुद्वाहार्थमागच्छन्तोऽपि भवन्तो यया स्ववशीकृत्य पञ्चाशालिताः । कुमारः प्राह; हे प्रिये । एतादृशी त्रिभुवने काचित्रास्ति या तदुपमां प्राप्नोति, किं वर्ण्यते तदीयाङ्गलावण्यं ? तस्यां मृतायां यत्त्वं परिणीताऽसि तत्तु यथा दुर्भिक्षे गोधूमतण्डुलादिसुधान्याऽप्राप्ती कुत्सितकरालकश्यामाकादितृणधान्याऽशनेनाऽपि जीवनं तथा त्वया सार्द्धं विषयोपभोगः, यदुक्तं-हेलवीउं हीरे। रूडे रयणायरतणे ॥ फुटरे फटिकतणे । मणीए मन माने नहीं ॥१॥ एतत् श्रुत्वा रत्नवती रोषाऽऽतुरा प्राह कीदृशं मया
अथश्रीरणसिंहचरित्रं प्रारभ्यते
॥२२॥