________________
श्रीजैन कथासंग्रहः
अथश्रीरणसिंहचरित्रं
प्रारम्यते
॥२३॥
. कृतं ? तस्या दुष्टायाः शिक्षा दापिता, गन्धमूषिका ग्रेषिता, सर्वमप्येतन्मया कृतं, यादृशी सा तवेष्टाऽभूत् तादृशं मया कृतं । किं पुनः पुनर्दासवत्तदीयगुणान् जल्पसि ? एतत् श्रुत्वा कुमारो निष्कलङ्का कमलवतीमाकलय्य क्रोधाऽऽतुरमना रक्तनयनो रत्नवी हस्ते गृहीत्वा चपेटया हत्वा निर्भत्स्य घिधिग् त्वामसत्कर्मकारिणी, ययाऽऽज्ञां दत्त्वा कुकर्म कारितं, त्वया स्वकीयो जीवो दुःखसमुद्रे क्षिप्तः, तस्याः स्त्रियः कुर्कुर्यपि वरं या भषमाणा अन्नप्रदानेन वशीभवति, न जल्पति । परं मानिनी बहुमानिताऽपि स्वकीया न भवतीति कथयति स्म । पुनः स चिन्तयामास हाहा मदीया दयिता कमलवती मिथ्याकलकचितायां पतिता मरणं प्राप्ता भविष्यति ? तर्हि ममाप्यनेन जीवनेन सृतमिति स्वसेवकानादिदेश, मदीयाऽऽवासद्वारप्रदेशे महतीमेकां चितां रचयत; यथाहं कमलवतीविरहदुःखतो प्रिये, एवमुक्त्वा बलात्कारेण चिता कारिता। सर्वार्यमाणोऽपिज्वलितुंचलितः, एतत् श्रुत्वा राज्ञाऽपि कूटकपटपेटिका मिथ्याकलकदायिका अकार्यकारिका नरकगतिगामिनी गन्धमूषिकानाम्नी बहुकदर्थ्यमाना विगलितमाना लब्यापमानारासमारोहणादिप्रकारेण नगरानिष्कासिता, खीत्वान मारिता । अथ कुमारोऽपि बहुप्रकारं राजप्रधानसार्थवाहादिभिर्वार्यमाणोऽपि चितासमीपमागतः, - राजादयश्चिन्तयन्ति हाहा महाऽनों भविष्यति, स्त्रीवियोगेनैतादृक् पुरुषरलंमरिष्यति। कुमारं चितायां
॥२३॥