________________
जीन
अधनीरणसिंहचरित्रं
प्रारभ्यते
कथासंग्रहः
॥२०॥
कुर्वन् पाटलीखण्डपुरं प्रति प्रियाशुद्ध्यर्थ चलन् कियता कालेन परिभ्रमन् चक्रधरग्रामसमीपोद्यानमाजगाम, तत्र पटावासे स्थितश्चक्रधरदेवार्चनार्थ गतः, तावत्कुमारस्य दक्षिणं चक्षुः स्फुरितं, चिन्तितवांग्चाऽद्य कोऽपीष्टसंयोगो भावी, मम तु कमलवर्ती विना न किमपीष्टं, सा यदि मिलति तदा सर्वेष्टलाभः संपन्नः, एवं विमृशति सति कमलवत्यपि पुष्पबटुकरूपं धृत्वा पुष्पाणि लात्वा कुमारहस्तयोः समर्पयति स्म। कुमारेणापि यथोचितं मूल्यमर्पितं । पश्चाद्देवपूजकेन चिन्तितमयं रणसिंहकुमारो रत्नवतीपरिणयनार्थ गच्छन् विलोक्यते । कमलवती कुमारं दृष्ट्वातीवहृष्टा बभूव कुमारोऽपि पुष्पबटु करूपधारिणी कमलवतीं पुनः पुनरालोकयन्नैवं चिन्तयति, अयं प्राणवल्लभाकमलवतीसदृशो दृश्यते । एतद्दर्शनेन ममातीव मनो हृष्टं । इत्थं चिन्तयन् सविस्मयं पुन: पुनरवलोकयन् स न तृति प्राप । कमलवत्यपि स्नेहवशतः स्वकान्तं निरीक्षते स्म । पञ्चात्कुमारोऽपि बटुकेन साद्ध निजाऽऽवासे समागतः, भोजनादि भक्तिपूर्व बहु सन्मानितो बटुकः पुरतः स्थापितश्च । कुमारः कथयति भो बटुक; तवांगं मुहर्मुहुः सम्यगवलोकवतोऽपि ममान तृप्तिर्जायते, अतीवाभीष्टं तव दर्शनं लगति; बटुकः प्राह स्वामिन् सत्यमिदं, यथा चन्द्रकान्तिदर्शनेन चान्द्रोपलादमृतश्रावो नान्यस्मात्तथा संसारेऽपि यो यस्य वल्लभो भवति सोऽपि तं दृष्ट्वाऽपि न तृप्तो भवति । कुमारः प्राह
॥२०॥