________________
श्रीजैन कथासंग्रहः
CINS अथनीरणसिंहचरित्रं
प्रारभ्यते
॥१९॥
वल्लभा मिलिष्यति। कथमहमधन्यो लोकानां मुखं दर्शयिता ? धिगस्तु मां, मम हृदयं कथं न स्फुटितं येन हृदयेनैवं चिन्तित । सा मदीया जिह्वा कथं शतखण्डवती न जाता ययैवमनुज्ञा दत्ता। इदमकार्य कुर्वतो मम शिरसि ब्रह्माण्डं कथं त्रुटित्वा न पतितं? अहो अविमृश्य कृतं कार्य महाऽनयते। यदुक्तं नीतिशास्त्रेऽपि-सहसा विदधीत न क्रियामविवेकः परमापदां पदं वृणुते हि विमृश्यकारिणं । गुणलुब्धाः स्वयमेव संपदः॥१॥अतः किमनेन शोचनेन ? परमित्थं केन कृतमिति चिन्तयता तेन गन्धमूषिकागमनं श्रुतं, चिन्तितं च सत्यमनौवेदमाचरितमिति सनिःश्वासं स चिन्तयति स्म, तावद्गन्धमूषिकाऽपि सोमापुर्या गत्वा रत्नवत्याः पुरः सर्वमपि कुमारस्वरूपं कमलवतीस्वरूपं चाऽकथयत् । रत्नवत्यपि प्रमोदवती जाता, स्वकीयपितरं पुरुषोत्तमनृपं कथयति स्म, स्वामिन् समाकार्यतां रणसिंहकुमारः, पुरुषोत्तमेनाऽपि कुमाराऽऽकारणार्थ कनकपुरे नगरे कनकशेखरनृपपावें प्रेषिताः स्वसेवकाः, तैरपि तत्र गत्वोक्तं स्वामिन् ! रत्नवतीपाणिग्रहणमकृत्वान्तरालमार्गत एव प्रत्यागच्छता रणसिंहकुमारेणातीवाऽयुक्तमाचरितं, वयं हेपिताः, परं रत्नवती तदेकाग्रचित्ता स्थिताऽस्ति । ततः प्रेष्यतां रत्नवतीपाणिग्रहणार्थ कुमारः, कनकशेखरोऽपि रणसिंहमाहूयोक्तवान्- गम्यतां रत्नवतीविवाहार्थ, कमलवतीविरहव्यग्रचित्तेनाऽपि तेन कनकशेखरनृपोपरोधेन तत्प्रतिपन्नं । शुभे दिवसे ससैन्यश्चलितः, शुभशकुनैः प्रेर्यमाणः प्रयाणं
॥१९॥