________________
श्रीजैन कथासंग्रहः
अथश्रीरणसिंहचरित्रं
प्रारभ्यते
M
॥१८॥
बत एकं बदरीफलोपमं स्त्रीशरीरं वीक्ष्य को न भोक्तुमुत्सहते ? यतः-तटाकवारि ताम्बूलं । स्त्रीशरीरंच यौवने ॥ को न पातुं न भोक्तुं नो । विलोकयितुमुत्सुकः ॥१॥ मम तु प्राणत्यागेऽपि शीलरक्षणं वरं, यदस्मिन्संसारे शीलादपरं परमपवित्रमकारणमित्रं नास्ति। यत:-निर्धनानां धनं शील-मनलंकारभूषणं ॥ विदेशे परमं मित्रं । प्रेत्यामुत्र सुखप्रदं॥१॥ पुनः शीलप्रभावतः प्रदिप्तो वह्निः शाम्यति, सादिकभयं नश्यति। यदुक्तमागमे-देवदाणवगंधव्वा । जक्खरखसकिन्नरा॥ बंभयारिं नमसंति। दुक्करं जे करिति तं ॥२॥ जो देइ कणयकोडिं। अहवा कारेड कणयजिणभुवणं॥ तस्स न तत्तियं पुणं । जत्तियं बंभव्वए धरिए ॥३॥ इत्यालोच्य जटिकाप्रभावेण ब्राह्मणवेषं विधाय पाटलिखण्डपुरत: पश्चिमायां दिशि चक्रधरनाम्नो ग्रामस्य समीपे चक्रवरदेवायतने पूजकत्वेन स्थिता, सुखेन कालमतिवाहयति । इतस्तदवसरे सारथिनाऽपि तत्र गल्या सर्वोऽपि कमलवतीसम्बन्धः कुमाराग्रे कथितः, कुमारोऽपि तत् श्रुत्वा सर्वमपि गंधमूषिकामन्त्रादिमाहात्म्यं ज्ञात्वा पश्चात्तापं कर्तुं लग्नो, हा हा ! किमाचरितमधमेन मयाऽध्रमकुलोचितं यनिर्दूषणायाः प्राणप्रियायाः कलङ्को दत्तः, सा मदीया प्राणप्रिया कमलाक्षी कमलवती किं करिष्यति ? किमहं करोमि ? तया विना सर्वमपि शून्यं । यतः-सति प्रदीपे सत्यग्नौ । सत्सु नानामणिषु च ॥ विनैकां मृगशावार्थी । तमोभूतमिदं जगत् ॥१॥ को जानाति ! कदा मम .
॥१८॥