________________
।
अवनीरणसिंहचरित्रं
प्रारम्यते
कथासंग्रहः
॥१०॥
. लक्ष्मीरसि, परमहमधमाज्ञाकारकः चाण्डालोऽस्मि, येन मया त्वमरण्ये मुक्ता, धिग्मां दुष्कर्मकारिणमिति
वन्तं कमलवती प्राह; भो सत्पुरुष! नायं तवात्रापराधः, यः सेवको भवति स स्वभर्तुराज्ञां करोत्येव, परं मन्दभाग्यवतस्तस्यैकं वचनं कथनीयं, यदेतत्कार्य किं त्वया कुलोचितं कृतमस्तीति, तत् श्रुत्वा कमलवीं बटतरोरयो मुक्त्वा रथं गृहीत्वा स पश्चालितः, पश्चादेकाकिनी तत्र स्थिता सा रुदन्ती विलपन्त्येवं कथयति स्म, अरे विधातः किमतिककंशमाचरितं त्वया ? किमकाले बज्रपातोपमं प्रियविरहजं दुःखं दत्तं ? किं मया तवापराद्धं ? अन्यत्सर्वमपि सोढुं शक्यते, परमस्मत्कलकारोपणतो भर्ना मम गृहनिष्कासनं महदुःखं भाति, किं करोमि? कयामि? अतो मातरत्रागत्य दुःखदावाग्निना दह्यमानां स्वपुर्वी पालय अथवा नागन्तव्यं, मदीयदुःखदर्शनेन तव हृदयस्फोटो भविष्यति, अहं मन्दभाग्यवती, पूर्व पितुरपि मया कुमार्यवस्थायां वरचिन्ता कारिता, पाणिग्रहणवेलायामपि अनादिकष्टमुत्पादितं, अधुनाऽप्येतत् श्रुत्वा मनिमित्तेन दुःखभाग् भविष्यति । एवमनेकधा विलापं कुर्वाणा मनसि सा विचारयति स्म, अहं पूर्व भर्तुः सुपरीक्षितशीलाऽभूवं, परं ज्ञायते केनापि निष्कारणवैरिणा अथवा भूतराक्षसादिना एतदिन्द्रजालस्वरूपं दर्शयित्वा भर्तुश्चित्तं व्युद्ग्राहितं कृतं, तदधुना कलासहिताया मम पितृगृहगमनं सर्वथा न युक्तं, जटिकाप्रभावेण पुरुषो भूत्वा तिष्ठामि।
॥१७॥