________________
श्रीजैन कथासंग्रहः
॥१६॥
तत्पितृकुले मुक्त्वा समागच्छतेति श्रुत्वा सेवकैश्चिन्तितं किमनुचितमयं करोति ? स्वामिवाक्यमनुल्लङ्घ्यमिति विज्ञाय कमलवतीसमीपमागत्योक्तं भो स्वामिनि ! वाटिकायां स्थिताः स्वामिनो युष्मानाकारयन्ति, रथे स्थित्वा शीघ्रमागम्यतामित्यसत्यमुक्त्वा तैः सा रथे समारोपिता, तावत्कमलवत्या दक्षिणं चक्षुः स्फुरितं चिन्तितं च तया किमद्य भविष्यति ? परं भर्त्रा समाहूताऽस्मि, तत्र यद्भाव्यं तद्भवतु, इति व्यग्रचित्ता रथे स्थिता । रथोऽपि सत्वरं सेवकेन चालितः । कमलवत्या पृष्टं; कियद्दूरं कान्तालङ्कृतमुपवमनस्ति ? तेनोक्तं क्व वनं ? क्व कान्तः ? कुमारेण पितृगृहे मोचनाय तवाऽऽज्ञा दत्ताऽस्ति । कमलवत्या कथितं भव्यं, यदि कुमारेणाऽविमृष्टमपरीक्षितमेतादृशमकार्यं कृतं तर्हि पश्चादेतस्य महाननुशयो भविष्यति, मम तु यदुदितं तद्भोक्तव्यमेव । यदुक्तं - कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं ।। मयि निरपराधायां किमनेनाऽऽचरितमिति चिन्तयन्ती स्तोकैरेव दिनैः पाटलीखंडपुरसमीपे समागता । तदा कमलवती प्रोवाच । भो सारथे; त्वमितो रथं पश्चाद्वालय ! यतोऽत्र तव किमपि कार्यं नास्ति, परिचितोऽयं मम भूप्रदेशः, इतः सन्मुखं पाटलीखण्डपुरोपवनं दृश्यते, अहमेकाकिनी सुखेन गमिष्यामि, एवमुक्ते सारथिरपि प्रणतिपूर्वकं साश्रुलोचनो विज्ञपयति; भो स्वामिनि ! त्वं साक्षात् शीलालङ्कृतिधारिणी
अथश्रीरणसिंहचरित्रं प्रारभ्यते
॥१६॥