________________
श्रीजैन कथासंग्रहः
अथश्रीरणसिंहचरित्र
प्रारभ्यते
म
॥१५॥
कदाचित्कूटविया कमलवतीमन्दिरमध्ये परपुरुषः समागच्छन् कुमाराय दर्शितः, परं मनागपि तस्य मनसि शङ्का नाऽऽयाता, चिन्तयति च कमलवतीशीलं सर्वथैव निष्कलङ्क वर्तते । एवं बहुवारं परपुरुषं दर्शनेन कुमारेण चिन्तितं किमियं खण्डतशीला जाता? यतः प्रत्यक्षमेतदेवं पश्यामि । तदा कमलवती प्रोवाच, भो प्राणनाथ ! नाहं किमपि जानामि परपुरुषसंचारस्वरूपं, यदि यूयं पृच्छथ तदा मम कर्मणामेवायं दोषः, अहं मन्दभाग्यवती यद्यूयमेतादृशं पश्यथ, यदियं धरा विवरं ददाति तदा प्रवेशं करोमि, नूनमेतदश्राव्यं मया न श्रूयते । तत् श्रुत्वा कुमारश्चिन्तयति, अवश्यमिदं भूतादिविलसितं विलोक्यते, नास्यां कापि कुचेष्टा । यद्यपि वामभुवो यौवने तीक्ष्णकटाक्षविक्षेपतः परमनांसि हरन्ति तथापि तैः पुरुषैः प्रतिदिनं गमः कथं संयुज्यते ? अन्तःपुरे तु नैतद्विशेषेण संभाव्यते । कोऽकालमरणाभिलाषी ? यः प्रत्यहमत्राऽऽयाति । इति सम्यग् विचारयतः कुमारस्य मनसि न सत्यं प्रतिभासते, परं स दुर्मनस्को भूत्वा स्थितः, तदा दुष्टया तया चिन्तितं, अद्याप्येतचित्तं तदुपरि न सम्यग् विरक्तीभूतं, द्वितीयेनोपायेन स्नेहभेदं करोमीति विचार्य ताम्बूलभोजनादिषु केनाप्युपायेन मन्त्रचूर्णादिप्रयोगेण तदुपरि ज्वलितुं लग्नं । लोकापवादतो बिभ्यता तेनैवं चिन्तितं इमां कमलवर्ती तत्पितृगृहे प्रेषयामि, अत्र नरक्षणीयेति विचार्य स्वसेवकानाहूयोक्तवान्, गच्छतैनां कमलवर्ती रथमारोप्य
॥१५॥