________________
श्रीजैन कथासंग्रहः
॥ १४॥
पुरुषोत्तमनुपपुत्री रत्नवती नाम्नी चिन्तयति, अहो मम पाणिग्रहणार्थमागच्छन् रणसिंहकुमारोऽन्तरा कमलवत परिणीतवान् । तया सार्द्धमतीवलुब्धो मम वल्लभो मां विस्मारितवान्, अत्र मदुद्वाहार्थं नाऽयाति । कमलवतीं विना नान्यत्किमपि पश्यति, अतस्तया किमपि कार्मणं कृतं विलोक्यते, कमलवतीस्नेहेनातीवनिभृतं भर्तृहृदयं दृश्यते, तेन च मत्स्नेहावकाशो न जायते, परमहं तर्हि सत्या यदि केनाप्युपायेन तच्छिरसि कलङ्कं दत्त्वा भर्तृचित्तं समुत्तारयामीति संचिन्त्य स्वकीयमातुरग्रे कथितं, तयाऽपि यथेष्टं कुर्वित्यनुज्ञा दत्ता । पश्चात्तत्रैका गन्धमूषिका नाम्नी दुष्टा कार्मणवशीकरणकर्मकुशला काचित्स्त्री वर्तते, तामाहूय रत्नवती कथयति स्म, मातर्मदीयमेकं कार्यं कुरु । यद्रणसिंहकुमारः कमलवत्यामतीवलीनो वर्त्तते, तत्तथाकुरु । यथैनां कलङ्कदूषितां कुमारो गृहान्निष्कासयति । तत् श्रुत्वा तया प्रतिपन्नं कियन्मात्रमिदं । स्वल्पकालेनैतत्करिष्यामीति प्रतिश्रुत्य स्तोकैरेव दिने रणसिंहनगरमागता, समागत्यान्तः पुरमध्ये कनकवतीमन्दिरं गता, कनकवत्याः पुरो रत्नवतीकुशलादिवृत्तान्तं कथयामास। रत्नवतीप्रवृत्तिकथनेन कनकवत्याऽपि तस्या बहु सन्मानं दत्तं । प्रतिदिनमन्तःपुरे समायाति, कुतूहलविनोदादिवार्त्ता कथयति, कमलवर्ती च विशेषेण जल्पयति । - यथा यथा कमलवत्या विश्वासः समुत्पद्यते तथा तथा करोति । एवं सर्वदा गमनाऽऽमगमने क्रियमाणे
अथश्रीरणसिंहचरित्रं प्रारभ्यते
॥१४॥