________________
श्रीजैन
अथश्रीरणसिंहचरित्रं
प्रारभ्यते
कबासंग्रह
॥१३॥
• तदा राजाऽतीवशोकाऽऽतुरो जातो, राज्यपि पुत्रीमोहेन रुदन्ती सेवकानेवं वदति स्म, यः कोऽपि मदीयां तनयामानयति तस्य मनोऽभीष्टं पूरयामीति, चरा अपि सर्वत्र 'भ्रामं भ्रामं विषण्णा निरुत्साहाः पुनरागताः, एवं सति प्रातः केनापि लब्धावदातेन कनकसेननृपाग्रे कथितं, स्वामिन् ! कमलवती परिणीतवेषण रणसिंहकुमारपटावासे क्रीडां कुर्वन्ती दृष्टा। तत् श्रुत्वा क्रोधारुणनयनो भीमनृपकुमारसहितो बहुदलवृतः स तत्राऽऽगतः, कुमारेण सार्द्धं च तेन युद्धमारब्धं । रणसिंहोऽपि सिंहवद्योद्घमारेमे । एकाकिनाऽपि रणसिंहेन देवसाहाय्यादीमपुत्रेण सार्द्ध कनकसेननृपो जीवन् गृहीतः, तदा कमलवतीदास्या सुमंगलया समागत्य सर्वोऽपि वृत्तान्तो निवेदितः, पश्चात्कमलवत्यपि समागता, पितुः प्रणामं कृत्वा करी मुकुलीकृत्य स्थिता । कनकसेननृपेणापि सर्व भीमनृपसुतस्वरूपं श्रुतं । अतीवकुद्धेन तेन तस्य बहुतर्जनादि क्रियमाणे कमलवत्या सोऽपिमोचितः, कनकसेनोऽपि रणसिंहस्य कुलधैर्यादि विज्ञायातीव हष्टो, महता विस्तरेण कमलवतीविवाहः कृतः, जामातुः करमोचनावसरे बहुगजाग्वादि दत्तं । रणसिंहोऽपि बहुकालं तत्रैव स्थितः, कियता कालेन कमलवर्ती गृहीत्वा स्वदेशं प्रत्यायातो, द्वाभ्यां कनकवतीकमलवतीभ्यां साद्ध विषयमुपभुजानः सुखेन कालमतिवाहयति स्म। एतदवसरे सोमापुर्या
॥१३॥
१मानवा मानवा।