________________
श्रीजैन कथासंग्रहः
HAI अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥१२॥
स्वावासमागतः, कामवशेन कोमलालापपूर्वकं नवीनवधू पुनः पुनरालापयति, परं मनागपि न जल्पति न्यग्भूय स्थिता । तदाऽतिमदनातुरेण तेन तदीयमङ्गं हस्तेन स्पृष्टं, तदा पुरुषस्पर्शो ज्ञातः, पृष्टं त्वं कोऽसि ? तेनोक्तमहं त्वदीयवधूः, कुमारेणोक्तं, त्वं कुतो वधूः? त्वदीयः कायस्पर्शः पुरुषस्येव दृश्यते । तदा वधूवेषधारकेण सुमित्रेणोक्तं प्राणनाथ किमिदं जल्पितं ? किं भवदीयं चेष्टितं स्पष्टीकरोषि ? यद्विवाहोत्सवेन नवपरिणीतां मां चेटकविद्यया पुरुषरूपेण करोषि हे ! अहं त्वधुना गत्वा मदीयपित्रोः समीपे कथयिष्यामि, यदहं कुमारप्रभावेण पुत्रीत्वं विहाय पुत्रो जातः, एवमुक्ते स भीमपुत्रो व्यग्रचित्तो बभूव, किमिदं जातमिति, सुमित्रोऽपि स्त्रीवेषधारक एव रणसिंहकुमारपार्वे समागतः, सर्व रजनीव्यतिकरं चाऽचीकथत्, तत्कौतुकं श्रुत्वा सर्वेऽपि परस्परं हस्ततालं दत्त्वा हसितवन्तः, पश्चाद्धीमपुत्रेणापि समागत्य कनकसेननृपाने कथितं, या भवदीया पुत्री मया साध विवाहिता स तु पुत्रो दृश्यते । तत् श्रुत्वा श्वशुराभ्यामुक्तं, किमयं जामाता ग्रथिलो जातः ? यदेवं जल्पति, किंवा भूताचावेशवान्, यदेवमसंबद्धं वक्ति। एतादृशी तु प्रवृत्तिः कंदाऽपि न जाता, न भाविनी नापि श्रूयते, यदेकत्रैव भवे जीवः स्त्रीत्वं विहाय पुरुषत्वं प्राप्नोति । किं च जामाताऽपि कथमसत्यं वदति ? परंस कोऽपि धुत्तॊ दृश्यते एवमुक्त्वा राज्ञा सर्वत्र कमलवत्याः शुद्धिः कारापिता। परं कुत्राऽपि सा न दृष्टा,
॥१२॥