________________
श्रीजैन कथासंग्रहः
JM अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥१२॥
पाशं क्षिप्त्वान्तराले स्थिता । तावत्सुमंगला नाम्नी तस्या दासी पदे पदे तामवलोकयन्ती तत्राऽऽगता, तस्याश्च तदवस्थां वीक्ष्य तया हाहारवः कृतः, तत् श्रुत्वा सुमित्रनाम्ना मित्रेण सार्द्ध रणसिंहकुमारोऽपि 'तत्र सत्वरमागतः, दास्या गलपाशश्छिन्नः, कमलवती अचेतना जाता, शीतलवाताधुपचारतश्च स्वस्थीभूता, तदा कुमारेण पृष्टं; भो सुभगे ! त्वं कासि ? किं कारणं कण्ठपाशग्रहणे ? किमर्थमिदमियत्साहसं च? सुमंगला प्राह स्वामिनद्यापि किमिमां न जानीथ ? इयं त्वल्लीनचित्ता कमलवती, पित्रा भीमनृपपुत्राय दीयमानाऽत्मघातेन म्रियमाणा मया कण्ठपाशच्छेदेन रक्षितेत्याकर्ण्य रणसिंहो हर्षमापन्नः, पश्चात्सुमित्रेणोक्तं; भो मित्र । मिष्टान्न भोजने मिलिते कः क्षुधातुरो विलम्बं करोति ? अतः कारणादिमां पाणिग्रहणतः समुद्धर मन्मथोदधेः, इति मित्रवाक्यं श्रुत्वा गान्धर्वविवाहेन तेन सा परिणीता, कमलवत्यपि मनसि महाऽऽनन्दं प्राप्ता, रात्री च सुमित्रेण सार्द्ध स्वगृहमागता तदवसरे विवाहकार्यहर्षातिरेकेण व्यग्रचित्तं स्वपरिवारं ज्ञात्वा कमलवती स्ववेषं सुमित्राय समर्पयित्वा स्वयं चान्यवेवं परिधाय रणसिंहकुमारपार्वे समागता, सर्वाऽपि प्रवृत्तिः स्वभर्तुरो कथिता । कुमारोऽपि स्नेहदृष्ट्या गाढंदोभ्या तां परिरभ्य पार्वे स्थापयामास। अथ लग्नवेलायां भीमसुतोऽपि हस्तिस्कन्धमारुह्य महताऽऽडम्बरेणागतो महोत्सवपूर्वकं कमलवतीवेषधारकस्य सुमित्रकुमारस्य पाणिग्रहणं कृत्वा
॥११॥