________________
श्रीजैन कथासंग्रहः
॥१०॥
भीमनृपपुत्रेण बहवोऽप्युपायाः कृताः, परं कोऽपि न लगति, तदा तेन कमलवतीमातुरग्रे स्वाभिप्रायो निवेदितस्तयापि चिन्तितं महानयं राजपुत्रोऽस्ति, अतो युक्तमनेन सार्द्धं स्वपुत्रीविवाहकरणमिति विचार्य भर्तुर्निवेदितं, तेनापि प्रतिपन्नं, द्वितीयस्मिन्नेव दिने लग्नं गृहीतं । कमलवत्यापि तद् ज्ञातं । महदुःखमुत्पन्नं, अतो सा न भुङ्क्ते न शेते न जल्पति न हसति, मनसि चिन्तयति गत्वा तमेव यक्षं सोपालम्भपूर्वकमाश्रयामि, नान्या मे गतिरिति विचिन्त्य रात्रौ प्रच्छन्नं निर्गत्य यक्षायतनमागत्य तमेवमुपालम्भं ददाति । हे यक्ष ! न घटते चैतद्भवादृशानां प्रधानसुराणां वाचोऽन्यथाकरणं तस्त्वेकैव जिह्वा । यदुक्तं- जिद्वैकैव सतामुभेफणभृतां प्रष्टुश्चतस्रोऽथवा । ताः सप्तैव विभावसौ निगदिताः षट् कार्त्तिकेयस्य च ॥ पौलस्त्यस्य दशैव ताः फणिपतौ जिह्वासहस्रद्वयं । जिह्वा लक्षसहस्रकोटिगुणितास्ता दुर्जनानां मुखे ॥ १ ॥ इति । यद्यप्येवं भवता भवद्वागन्यथा कृता परं मदायत्तोऽस्ति मदीयजीव इति कथयित्वा रणसिंहकुमारस्य पटावासपार्श्वे समागत्य महति वृक्षे गलपाशं बद्ध्वा कथयामास, भो भो वनदेवता ! मदीयं वचनं शृणुत । मया रणसिंहकुमारस्य वरणेच्छयाऽयं चिन्तामणिनामा यक्षो बहुधाऽराधितो, दत्ताऽप्यनेन स्ववाक् न पालिता, तदर्थमहमात्मघातं करोमि । यदि मयाऽस्मिन् भवेऽयं भर्त्ता न प्राप्तस्तर्ह्यागामिन्यपि भवे ममायं वल्लभो भूयादित्युक्त्वा साहसं कृत्वा वृक्षोपरि चटित्वा कण्ठे
अथश्रीरणसिंहचरित्रं प्रारभ्यते
॥१०॥