________________
श्रीजैन
SHI अथश्रीरणसिंहचरित्रं
प्रारभ्यते
कथासंग्रहः
॥९॥
प्रासादान्तः समागच्छति तदा वारणीय इति शिक्षयित्वा तया सा द्वारप्रदेशे स्थापिता, स्वयं चैकान्ते समागत्यैकां जटिकां कर्णयोर्बद्ध्वा पुरुषरूपेण भूत्वा प्रासादद्वारे समायाता। तदा तेन कुमारेणोक्तं भो देवपूजक! कमलवती कथं बहिर्न निर्गता ? तेनोक्तं मया त्वत्र प्रासादे एकैवेयं दृष्टा, अन्या तु काऽपि नास्तीति कथयित्वा स्वमन्दिरमागता जटिका कर्णतो दूरीकृता, मूलरूपेण जाता, पश्चाद् द्वारस्थितो भीमसुतोऽपि प्रासादमध्ये बहूवारमवलोकयन्नपि तामदृष्ट्वा विषण्णो भूतः स्वस्थानं गतः, दास्यापि समागत्य कमलवत्यै पृष्टं; स्वामिनि ? कथमत्राऽऽगता त्वं ? मया तु निर्गच्छन्ती न दृष्टा । तया सर्वमपि जटिकास्वरूपं कथितं । तदा दासी प्रोवाच भो स्वामिनि! एतादृशीयं जटिका कुतस्त्वया लब्धा ? कमलवती प्राह शृणु पूर्वमेकदाऽहं यक्षायतने गता, तदा तत्रैकं विद्याधरविद्याधरीयुग्ममागतं, तदा मां दृष्ट्वा विद्याधरस्त्रिया चिन्तितं यद्यत्यद्भुतरूपामिमां मदीयो भर्ता दृक्ष्यति तदैतद्रूपमोहितो भविष्यतीति ज्ञात्वा यथाऽहं न जानामि तथा मम कर्णे सैकां जटिकां बबन्ध । पश्चाद्यक्षपूजार्थ गताहं स्वात्मनः पुरुषवेशं दृष्ट्वा विस्मयमापना, सर्व शरीरमवलोकयन्त्या मया कर्णे जटिका दृष्टा, सा ततो दूरतो मुक्ता, मूलरूपेण च जाता, पश्चात्सा जटिका मयाऽत्यादरेण गृहीता, सैव च मम पार्श्वे वर्तते। तत्प्रभावेण चाद्य पुरुषवेषं कृत्वाऽहं प्रासादात्समागतेति जटिकास्वरूपं दास्यै निवेदितं । अथ
॥९॥