________________
श्रीजैन कथासंग्रहः
SANM अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥८॥
भुक्वानेन साद्ध यथेप्सितं सांसारिकं सुखं । एतत् श्रुत्वाऽऽनंदमापन्ना कमलवती सेवकांतिके तन्नामादि परिपृच्छ्य स्नेहदृष्ट्या पुनः पुनः सन्मुखमवलोकयन्ती स्वगृहमागता । कुमारोऽपि स्वकीयपटावासे समागतः, अथ द्वितीयदिवसेऽपि तथैव कमलवती यक्षपूजार्थमागता। कुमारेणापि दृष्टा। पूजां विधाय मधुरस्वरेण सम्यग्वीणावादनपूर्वकं तदने संगीतकं कृत्वा गृहं गता, कुमारोऽपि तदीयं गानमथ वीणास्वरं श्रुत्वा मनसि चिन्तयति स्म, यद्येनां विवाहयामि तदा मे सफलं जन्म नो चेकिमनेन जीवनेनेति तद्रागवाहित: स्थितः, तदा पुरुषोत्तमनृपप्रधानैरागत्य विज्ञप्तं, स्वामिन् ? कोऽत्र विलम्बहेतुः ? कुमारेणोक्तं ममात्र किञ्चित्कार्यमस्ति, यूयमग्रतो गच्छत । अहमपि पृष्ठतः शीघ्रमागच्छामि । इति श्रुत्वा ते प्रधानपुरुषाः सोमापुर्या पुरुषोत्तमनृपसमीपे गताः, कथितं च कुमाराऽऽगमनस्वरूपं; रणसिंहकुमारस्तु कमलवतीरूपमोहितस्तत्रैव स्थितः। एतदवसरे एको भीमनृपपुत्रोऽपि कनकसेननृपसेवां करोति । सोऽपि कमलवतीरूपं दृष्ट्वा मोहितोऽस्ति, परं कमलवती मनागपि तं नेच्छति । एकवारं कमलवी यक्षपूजार्थ गतां विज्ञाय सोऽपि भीमपुत्रस्तत्पृष्ठतो जगाम । चिन्तितं च तेन प्रासादद्वारानिस्सरन्त्यास्तस्याः सर्वमपि मनोऽभिलषितं कथयिष्यामीति संचिन्त्य स प्रासादद्वारे स्थितः, कमलवत्याऽपि स दृष्टः, तदा सा सुमंगलां स्वदाी कथयति स्म, योऽयं द्वारस्थितोऽस्ति स यदि
॥८॥