________________
श्रीजैन कथासंग्रहः
अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥७॥
च नियमो गृहीतः, एतादृशं सुतामनो ज्ञात्वा पुरुषोत्तमराज्ञा स्वकीयप्रधानपुरुषा रणसिंहमाकारयितुं प्रेषिताः; तैरपि तत्र गत्वा तवैवोक्तं । रणसिंहेनोक्तं सर्वमपीदं कनकशेखरो जानाति, नाऽहं किमपि वेग्रीति प्रधानपुरुषः कनकशेखरनृपाग्रे कथितं । तदा कनकशेखरेण चिन्तितं, एतत्सत्यं यदियं रत्नवती मम भागिनेया, तदस्या अपि विवाहो मम कर्तुं युक्त एवेति रणसिंहमाकार्य स प्रोवाच गम्यतां रत्नवतीपाणिग्रहणार्थ, तेनापि तत्प्रतिपन्नं । महता परिवारेण रणसिंहोऽपि रत्नवतीपरिणयनार्थ चलितः मार्गे गच्छन्नेकदा पाटलीखण्डपुरसमीपोपवने चिन्तामणियक्षायतनसमीपे समागत्य स्थितः, यक्षप्रासादमध्ये यक्षाय प्रणामं कृत्वा स्थितः, तदतसरे रणसिंहकुमारस्य दक्षिणं चक्षुः स्फुरितं, तदास मनसि व्यचिन्तयत् अथ कोऽपीष्टमेलापको भविष्यतीति । तस्मिन्नवसरे पाटलीखण्डपुराधिपस्य कमलसेननृपस्य कमलिनीकुक्षिसमुद्भवा कमलवतीसुता सुगन्धपुष्पादिपूजोपकरणान्यादाय सुमंगलादासीसहिता यक्षप्रासादे समागता, आगत्य रणसिंहकुमारं दृष्ट्वा कामविलाजाता, कुमारोऽपि तां दृष्वाऽतीव व्यामोहितः, परस्परमनिमेषलोचनी क्षणमच सस्नेहमवलोकयितुं लग्नौ । पश्चाद्यक्षपूजां कृत्वा विज्ञापयति स्म, स्वामिंस्तव प्रसादतोऽयं मम भर्ता भवतु, एतदर्शनेनाहमतीव रागवती जाता, अतः प्रसन्नीभूय ममनं राजकुमारं प्रियत्वेन समर्पय । तदा यक्षेणोक्तं भो वत्से समर्पितोऽयं मया,
॥७॥