________________
श्रीजैन कथासंग्रहः
॥६॥
तब हालिकस्य पुत्रीसमर्पणेच्छाऽऽसीत् तदा कथं वयमाकार्य हेपिताः, कनकशेखरेणोक्तं नाऽयं ममात्राऽपराधः, यत्रेच्छया पुत्री वरं वृणीते तत्र किमयुक्तं ? एतत् श्रुत्वा सर्वेऽपि कुपितास्ताम्रवदना उदायुधा रणसिंहमुपवेष्टयामासुः कथितं च तैः रे रंक ! त्वं कोऽसि ? किं तव कुलं ? रणसिंहेनोक्तं अधुना कुलकथनप्रस्तावो नास्ति, यद्यपि कथयामि तथाऽपि भवतां विश्वासो नायाति । ततः सङ्ग्रामकरणेन मम कुलपरीक्षा भविष्यति । इति श्रुत्वा सर्वेऽपि योद्धुं सज्जीभूताः, रणसिंहोऽपि हलमादाय धावति स्म, परस्परं युद्धे जायमाने देवप्रभावेण हलप्रहाराज्जर्जरीभूता नष्टाश्च सर्वेऽपि राजानः, तद् दृष्ट्वा चमत्कृतान्तःकरणः कनकशेखरो व्यजिज्ञपत् स्वामिन्महदाश्चर्यं कृतं, प्रकाशय निजस्वरूपं । तदैव यक्षेण प्रत्यक्षीभूय सर्वमपि रणसिंहकुमारचरितं निरूपितं । तत् श्रुत्वा कनकशेखरोऽतीव हृष्टो, महताडम्बरेण च पुत्री विवाहिता । नपि राजन्यान् परिधापनिकापूर्वकं स बहु सन्मानयामास, ततस्ते सर्वेऽपि स्वदेशं जग्मुः, पश्चात्कनकशेखरेण जामातुरेकदेशराज्यं समर्पितं, तत्र स्थितः कनकवत्या सार्द्धं विषयसुखमनुभवन् स सुन्दरकौटुम्बिकं समाकार्य उचितराज्यकार्याधिकारिणं चकार । एतस्मिन्नवसरे सोमानाम्यां महापुर्यां पुरुषोत्तमनामा नृपस्तद्गृहे च रत्नवती पुत्री वर्तते, सा च कनकशेखरनृपभगिनीसुता, तया सर्वमपि कनकवतीपाणिग्रहणस्वरूपं ज्ञातं, रणसिंहं विनाऽन्यवरणे
अथश्रीरमसिंहचरित्रं प्रारभ्यते
॥६॥