Book Title: Hetvabhas Savyabhichar Author(s): Gangadhar Pandit Publisher: Gangadhar Pandit View full book textPage 9
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir नपसंहारिणि साध्याभावाप्रसिद्ध्या तत्संशयाद्यभावादव्याप्ति एवं यत्र स्थिरे धम्मिणि पूर्व घटत्वं गृहीतमुत्तरदशायां तत्रैव दोषात् घटत्वाग्रहे तद्घटभिन्नोऽयमिति भ्रमे च घटत्वनिश्चयविषयीभवद्धमिव्यावृत्तत्वेन गृह्यमाणतया असाधारणे इदन्त्वे asपि वस्तुतस्तव्यावृत्तत्वाभावेन तत्र लक्षणायोगादित्यतस्तयोर्लक्ष्यवाभावेन परिहरति केवलान्वयीति । अतएवेति प्रतएव पुरुषदोषाधीनं तद्दोषत्वम् अतएव तस्यानित्यदोषवं साहजिकवे कादाचित्कवानुपपत्ते : एवंच यत्र दोषताप्रयोजकं वस्तुतो हेतौ तत्रानित्यदोषत्वमपि यत्र पुरुषस्य तद्धमो न तत्र तदपि भ्रममात्राद्दुष्टत्वेऽतिप्रसंगमाह अन्यथेति केचित् । परे तु अयं |घट एतत्त्वादित्यादावव्याप्तिः । साध्यसंदेहप्रयोजकं हि तस्य साध्यतदभाववव्यावृत्तत्वं नाटकस्य धर्मस्य तदुभयव्यावृत्तत्वं संभवति असाधारण्यंतु तस्य पक्षमात्रवृत्तितया अतस्तस्यालक्ष्यतयोत्तरयति अयं घट इत्यादि एवंचावृत्तिगगनादिकमेवासाधारणं पक्षवृत्तित्वभ्रमदशायांचासाधारण्यस्यासंकरः नचोभयव्यावृत्तत्ववृत्तिमत्त्वयोः स्वरूपतो विरोधः निश्चितसाध्यतदभाववव्यावृत्तत्वंच न संदेह प्रयोजकं तथा सति तुल्यन्यायतया निश्चितसाध्यतदभावववृत्तित्वस्यापि तथात्वे सखेतावपि साध्याभाववत्त्वभ्रमविषयवृत्तित्वग्रहदशायामतिप्रसंगात् नच तादृशनिश्चयविषयस्य धर्मिणो वास्तवं साध्याभावादिमत्त्वमपि तंत्र मानाभावात् किंच संदेहजनकतावच्छेदकरूपस्य विशेषणत्वे व्यभिचारिण रासभादौ महानसादिवृत्तितादशायामव्याप्तिः उपलक्षणत्वे असाधारण्योनीर्णतादशायामतिव्याप्तिः असाधारणप्रकरणसमययोस्तत्त्वेन भ्रमविषययोरनित्यदोषत्वविशेषादशनदशायामनुमित्यनुत्पादप्रयोजकत्वं नतु वास्तवं हेतुदोषत्वं अन्यथानुमित्यनुत्पादप्रयोजकज्ञानविषयतामात्रेण वास्तवहेतु दोपत्वे इत्याहुः । अनवगतसाध्यसहचारत्वे सति अवगतसाध्यानावसहचारतया विरुद्धत्वमेव तयोरिति इदंचाभ्युपगमवादेन वस्तुतो यथोपवर्णितलक्षणस्य न तत्राव्यापिरिति ध्येयम् यद्रूप ज्ञान मनुमिति प्रतिबंधकम् तदेव For Private and Personal use onlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90