Book Title: Hetvabhas Savyabhichar Author(s): Gangadhar Pandit Publisher: Gangadhar Pandit View full book textPage 8
________________ Shri Maharan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie शिरो. सव्यभिचारमध्याप्रवेशे सव्यभिचारसंकीर्णतया असिद्देऽप्यनंतर्भावापत्तौ तस्यातिरिक्तहेत्वाभासत्वापत्तेः न च व्याप्यविरुद्धयोः * साधारण्यभ्रमदशायामतिप्रसंगः धर्मिणि यद्रूपावच्छिन्नवत्ताज्ञानं साध्यसंशयजनकं तद्रूपावच्छिन्नत्वस्योक्तत्वात् तद्रूपं साधारणत्वादीति सिद्धांते स्फुटीभविष्यति । इदं सविषयकमात्मवृत्ति वा ज्ञानत्वात् इत्यादौ प्रामाण्याप्रामाण्यसंशयस्य तद्घटकीभतसाध्यतदभावविषयकतया कोट्युपस्थितिरूपस्य जनकीभूतज्ञानविषये ज्ञानत्वे तु नातिप्रसंगशंकापि साधारणधर्मवत्ताज्ञानस्य तज्जन्यकोट्युपस्थितेर्वा संशयजनकतया तज्ज्ञानस्य तादृशसंशयाहेतुत्वात् प्रामाण्यसंशयस्थले तु ज्ञानत्वलक्षणसाधारणधर्मदर्शनात् ज्ञाने प्रामाण्यस्य ज्ञानविषयतात्मकसाधारणधर्मदर्शनाच्च विषये तहत्त्वस्य संदेहः अप्रामाण्यशंकाद्यन्वयानुविधानंतु धमत्वज्ञानशून्यविरोधिज्ञानस्य प्रतिबंधकतया तदपसारणप्रयुक्तमित्यस्याकरे व्यक्तत्वात् व्याप्यवत्तासंशयस्य प्रथगव्यापकवत्तासंशयहेतुत्वपक्षे ज्ञानपदं निश्चयपरं हेतुत्वाभिमतविशेषणंतु येन सम्बंधेन तदुभयसाहचर्यं तेन सम्बंधेन तहत्ताज्ञानस्य संशयादिजनकतासूचनार्थं तेनात्मत्वकपालत्वादिसाध्यके समवायसम्बंधेन हेतौ ज्ञानघटादौ विषयत्वसंयोगादिना तत्संदेहजनके नातिप्रसंग इति । विप्रतिपत्तौ प्रत्येकं कोटिहयोपस्थापकत्वाभावात् लक्षणस्थहयपदेन तहारणान् मिलितस्य तट्पस्थापकत्वेऽपि तहत्ताज्ञानं न तथा न वा मिलित्वा योजनकत्वं तथात्वेऽपि वा येन सम्बंधेन तहत्ताज्ञानमुभयकोट्यपस्थापकं तेन सम्बंधेन हेतुत्वेऽवश्यं सव्यविचारत्वमिति । अनुपसंहारी पक्षएवेति अनुपसंहारितादशायां साध्यतदभावसहितत्वनिर्णयाभावेऽप्युक्तक्रमेण वास्तवतत्सहचरितत्वमादायैव लक्षणसमन्वय इति भावः । केचित्तु व्याप्यादिधर्मेऽपि साधारण्यज्ञानात् संशयस्योदयात् तदनाने च वस्तुतः साधारण्यज्ञानेऽप्यनुदयात् साधारण्यज्ञानं हेतुस्तत्र निश्चयत्वमकिंचित्करं गौरवात् तथाच पक्षएव तत्संशयात्मकतदुभयसाहचर्यज्ञानाद्भवति तथात्व मिति भाव इत्याहुः तच्चित्यम् । ननु केवलान्वयिसाध्यका For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 90