Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
XKKKKKK
कारणाभावतया स्वरूपसन्नेव दोषो न हेत्वाभास इत्यत आह केवलान्वयीति पक्षः साध्यानिश्चयविरोधिनः साध्यवान्नवेत्यादेः | संदेहस्य विषयोऽवच्छेदकत्वंच स्वान्यूनवृत्ति तत्कत्वं तच्च स्वरूपसतोऽप्यविरुद्धं तेन प्रातिश्विकद्रव्यत्वादिरूपेण सर्वत्र साध्य* संदेहदशायां नाव्याप्तिः एवंच सर्वत्रैव हेत्वादिमति साध्यतदभावसंदेहाश्याप्त्यग्रहेणाभासत्वम् । परार्थस्थले वहिर्भावं व्युत्पादयति एवमित्यादिना असिद्धिरनिश्चयः ज्ञाने ज्ञापने स्वार्थस्थलेऽन्तर्भावम् एतेनेत्यादिनाशंक्य निरस्यति उपजीव्यत्वादिति । अत्रेदं चित्यं हेतुमति साध्याभावसंदेहो नाभासः सत्तयैव विरोधित्वात् तद्विषयस्तु हेतो: साध्याभावसामानाधिकरण्यं साध्यस्य वा हेतुमन्निष्ठाभावप्रतियोगित्वं नास्त्येव केवलान्वयिसाध्यके व्यतिरेकिसाध्यके तु साधारण्य रूपतया संदिग्धानैकांतिकत्वं । | पर्यवसितं विश्वविषयकसाध्यतदभावसंदेहे च कारणीभूतान्वयव्यतिरेकसहचारग्रहविरहात् संशयसामग्र्या साध्यतदभाववत्त्वनिश्चयप्रतिबंधादा व्याप्त्यग्रहेऽज्ञानरूपासिद्धिरेव उपजीव्योऽपि च साध्याभावसंदेहादिर्नाभासः सत्तयैव विरोधादिति यत्तु व्याप्तीति व्याप्तिग्रहानुकूल सहचारनिश्चयत्वावच्छिन्न विरोधिरूपत्वमर्थः विरोधस्तु संशयसाधारणमन्वयमात्रसहचारयहं विरुद्धि असाधारणे व्यतिरेकिणि च न व्यतिरेकसहचारग्रहविरोधः तादृशरूपमंतरेण लक्षणस्यासंभवितया तदेव रूपं लक्षणमाह केवलेति तादृशावच्छिन्नः पक्षः संदिग्धसाध्यकोयस्याश्रयः स तथा तथाच केवलान्वयिधर्मावच्छिन्नसाध्यसंदेहविपयवृत्तित्वमनुपसंहारित्वं व्यतिरेक्यादौ केवलान्वयी न साध्यसंदेहविषयतावच्छेदकः साध्यवत्तानिश्वयसामान्यविरोधिसंशयविषयवृत्तित्वं वा तत्त्वं धर्मिविशेषनियंत्रितस्तु संदेहो नान्यधम्मिकनिश्चयविरोधी साध्य संदेह विषयताव्याप्य साध्यसिद्ध्यनुकूलव्या| प्तिग्रहोपयिकसत्ताकत्वं वा तादृशी च सत्ता अन्वये हेतोर्व्यतिरेके च तदभावस्येति न कश्विद्विशेष: स्वरूपसत्तादृशसंशयविषये च हेतुमत्ताज्ञानं हेतौ साध्यसामानाधिकरण्यं संशयसामग्रीत्वेन तन्निश्चयप्रतिबंधकं सर्वत्र संशयसामग्रचा निश्चयप्रतिबंधक
Acharya Shri Kailassagarsun Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90