Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गादा. मप्यसंगत मतो यथाश्रुतार्थे तादृशदोषयं संगमयति । प्रथममिति । एकमात्रसपक्ष विपक्षस्थले सर्व सपक्षाद्यप्रसिद्धिरित्याशंक्य व्याचष्टे । सपक्षेति । सपक्षवृत्तित्वत्वावच्छिन्नाभावो विपक्षवृत्तित्वत्वावच्छिन्नाभावश्चेत्यर्थः। सर्वतयावृत्तत्वं । सर्वसपक्षविपक्षव्यावृत्तत्वपदार्थः तावतैव यत्किचित् सपक्षविपक्षव्यावृत्तयो (१)प्प्यविरुद्धयो तिव्याप्त्यवकाश इतिभाव: । सपक्षबत्व विपक्षव्यावृत्तयो विरुद्धमा तिव्याप्तिवारकतया सार्थक्यं संभवत्येवे त्याशंक्य दृषकतानुपयोगित्वरूप वैयर्थ्यपरतां व्यर्थविशेषणत्वादितिमूलस्याह । सपक्षेति । व्याप्यविरूद्धयोरिति । शद्दोऽनित्यः शद्दत्वादित्यादौ व्याप्यस्य हेतोः साध्यवन्मात्र वृत्तित्वपि पक्षेपिवृत्तेः पक्षातिरिक्त साध्यवन्मात्रवृत्यन्यन मक्षतमेव एवं शहो नित्यः शद्वत्वादित्यत्र विरूद्धस्य हेतोः साध्याना-IA ववन्मात्रवृत्तित्वेपि पक्षेपि वृत्तेः पक्षातिरिक्त साध्याभाववन्मात्रवृत्यन्यत्व मक्षतमेवेति योः संग्रह इतिभावः पक्षातिरिक्तत्यत्र पक्षपदस्य तत्तद्धर्मिमात्रपरत्वे पक्षे साध्य साध्याभावान्यतरनिश्चयदशायां शहोनित्यः शद्वत्वादित्यादावतिव्याप्तिः। सिद्ध्यभावरूप पक्षताविशिष्टपरत्वे पक्षे सिद्धिदशायां तत्र विशिष्टा तिरिक्तत्व सत्वोपगमात् अतिरिक्तांतस्य पक्षताशून्यपरत्वो| पगमा हा अतिप्रसंग वारण संभवेपि शवोऽनित्यशद्वत्वादित्यादौवाधानश्चयदशायामतिप्रसंगोदुरिः । एवं सिद्धिवाधान्यतरा भावरूप पक्षताविवक्षणे च गौरवमत ः संशयरूप पक्षतापरतया व्याचष्टे | पक्षत्वमिति । संदिग्धसाध्यकत्वं विषयतासंबंधेन साध्यसंदेहविशिष्टत्वं कालांतरीण-संशयविषयेष्वपि संशयरूपविशेषणासत्वदशायांतहिशिष्टभेदउपगम्यते अतिरिक्तांतंवा पक्षताशून्यपर मतः साध्यादिनिश्चयदशायां नातिप्रसंगः। यदापक्षेसाध्यतदक्षावयो न निश्चयो नापिसंशय स्तदा शद्वोऽनित्यःशहत्वादित्यादे न साधारण्यं किंतु यथायथं सद्धेतुत्वंविरुद्धत्वंवेति नाव्याप्तिप्रसंगइतिभावः। पक्षातिरिक्तवृत्तिर्यत्साध्यतदभावव (१) टिव्पणी-सपक्ष विपक्ष वृत्तिता प्रतियोगिका भाव वतो रित्यर्थः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90