Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
*******************
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
| स्वसामानाधिकरण्योभयसंबंधेन अत एकधर्मावच्छिन्नविशेष्यक साधारण्यादिप्रकारकज्ञानादिसहितात् अपरधर्मावच्छिन्नप्रका | रकधर्मिज्ञाना नसंशयः ईदृशापत्तिवारणायैव एकविशिष्टापरस्य हेतुतास्वीक्रियते नतूभयोः पृथक्कारणतां एकविशिष्टापरत्वेन | | हेतुत्वे विशेष्यविशेषणभावे विनिगमनाविरहेणकारणताद्वयमात्रं पृथक्कारणतामतेतु एकधर्माविच्छिन्नविशेष्यक साधारण्यादि | प्रकारकज्ञानादिसहिता दन्यधर्मावच्छिन्नप्रकारक धर्मिज्ञाना संशयापत्ते स्तत्तद्धर्मावच्छिन्नविशेष्यक साधारण्यादिप्रकारकत्वेन तत्तद्धर्मावच्छिन्न प्रकारकथर्मिज्ञानत्वेन च हेतुताकल्पनमंतरेण दुर्वारतया तादृशहेतुतास्वीकारे ऊर्द्धत्यत्वादिरूप विषयतावच्छेदकानंत धर्मभेदेन हेतुताया आनंत्यंस्यादितिवदति तन्मते यथाव्याख्यातलक्षणे शुद्धधूमत्वाद्यवच्छिन्नप्रकारताया अपि वन्हया - दिसंदेहजनकतावच्छेदकत्वात् शुद्धधूमत्वादिकमादायातिप्रसंगवारणमशक्यमिति तन्मते कल्पांतरमाह कोटिइयेति ऊर्द्धत्व| त्वादिनेत्यस्य केवलेनेत्यादिः तदानीं संशयप्राक्काले यद्रूपेति यद्रूपप्रकारक विशिष्टत्वेन यत्किंचित्संशयजनकता तद्रूपवत्वमित्यर्थः यत्किंचित् संशयजनकतावच्छेदकतावच्छेदकत्वनिरूपिताया निरूपकत्व संसर्गाविच्छिन्नावच्छेदकता तदाश्रयविषयता | पर्याप्त्यधिकरणधर्मवत्वं यत्किंचित्संशयजनकतावच्छेदकतावच्छेदक वैशिष्ट्यघटक विशेष्यतानिरूपितप्रकारता पर्याप्त्यधिकरण धर्मवत्वमिति वा पर्यवसितार्थः तच्चेत्यादिमूलग्रंथः साधारण्यासाधारण्य संशयप्रयोजकरूपमादाय लक्षणसंगमनपरतत्र यादृशासाधारण्यस्य संशयप्रयोजकत्वं विचारसहं तत्सद्धेतुसाधारणमिति दोषेण लक्षणान्तरमुथ्थापयितुं तादृशग्रंथ कारयति तच्चेत्यादीति असाधारण्यं संशयप्रयोजकीभूता साधारण्यपदार्थः वृत्तिमतइति तथाच शद्दोनित्यः शद्दत्वादित्यादा वसाधारण्येऽव्याप्तिरितिभावः ननु वृत्तिमतो ना साधारण्य मुपगंतव्यं किंत्ववृत्तेरेवेति नैतद्दोषावकाश इत्यत आह एककोटीति व्याप्यस्य व्याप्यतयागृहीतस्य व्यावृत्तस्य तदवृत्तित्वेनगृहीतस्य एतेन एककोटिमद्व्यावृत्तस्यैक कोटिव्याप्यताया आवश्य
મવેતા
For Private and Personal Use Only
*****
**********

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90