Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टिमयावृत्तधर्मवत्ताज्ञानस्योत्तेजकत्वं प्रामाणिक मप्रामाण्यज्ञानोत्तेजकतयैवोपपत्तेः अप्रामाण्यज्ञानानास्कंदितस्यैव ज्ञानस्य जनकतया निरुक्तासाधारण्यस्य बुद्ध जनकत्वोपगमे प्रतिबंधकतावच्छेदकरूपेणैव जनकताप्रसंगइतिभाव : निश्चित्साध्यतदभाववढ्यावृत्तत्वमिति आसाधारण्यमित्यनुषज्यते येनयेनरुपेणेति यद्यद्रपंधर्मितावच्छेदकीकत्येत्यर्थः (१) तेनतेनरूपेण तत्तयावृत्तत्वं तत्तद्धर्मविशिष्ट तत्तद्धर्मिव्यावृत्तत्वं प्रमेयत्वादिसामानाधिकरण्येन घटादौ साध्यादिनिश्चयदशायामपि शद्दोऽनित्य : शहत्वादित्यादा वसाधारण्यसत्वा द्धर्मिनिवेशः प्रथमपक्षे वक्ष्यमाणाया निर्मितावच्छेदकक साध्यनिश्चयविषयवृत्तिहेतो रसाधारण्यानुपपत्तेर्व रणायघटत्वादिना साध्यादिनिश्चयदशायां रूपांतरावच्छिन्न घटादिव्यावतत्व ज्ञानात्संशयापत्तिवारणाय च धर्मितावच्छेदकनिवेशः साध्यव्याप्यवत्वेन पक्षातिरिक्तमात्रविषयक निश्चयदशाया मसाधारण्यानुपपत्त्यनवकाशात् पक्षस्यापि निश्चयविषयत्व माविष्कर्तुं सर्वाणीति । सर्वपदेन सर्वत्वावच्छिन्नोद्देश्यत्ताकवोधः केवलान्वयि सर्वत्वाद्यवच्छेदेन विधेयविषयकएव जन्यतइति तथाविधवधिस्यैव सर्वाणि साध्यवंती त्याकारकता तथाच विशिष्यपक्षे साध्यनिश्चयदशायामिव साध्यसंदेहविरोधिन : सर्वाणिसाध्यवंतीति निश्चयस्य सत्वे प्यसाधारण्यानावस्येष्टत्वा त्साध्यव्याप्यवंतीति तथाचै तादृशनिश्चयदशायां विशिष्यपक्षे साध्यसंदेहस्या निवृत्ते स्तादृश निश्चयस्य ना साधारण्यक्षतिकारकत्व मितिभावः प्रथमपक्षे धर्मितावच्छेदकानिवेशा सामान्यधर्मावच्छिन्नधर्मिकं विशिष्य संशयानिवर्तकं निर्णयमिव निर्मितावच्छेदकतया अप्रसक्तसंशयनिवर्तकताक निश्चयमादायापि दोषदानं संभवतीतिनिर्धर्मितावच्छेदकतया अप्रसक्तसंशयनिवर्तकताक निश्चयमादायापि दोषदानं संभवतीत्य भिप्रेत्याह सर्वाणिवेति
(१) टिप्पणी-धम्मिता निरूपिता बच्छेदकतात्वा वच्छिन्नप्रतियोगिताक पर्याप्तनुयोगिता वच्छेदकं यद्यदूपं तत्तदूपविशिष्ट यद्य दम्मिणिसाध्यादिअमत्ता निश्चय स्तत्तद्वविच्छिन्न धम्मिवृध्ययंताभावप्रतियोगिता वच्छेदक धर्मतत्व मसाधारण्य मितियावत् ॥
For Private and Personal use only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90