Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गादा. णधर्मप्रकारकत्वमानं निवेश्यत इतिनास्माकमपि स्वतंत्रकारणताकल्पनं मानसेपि विप्रतिपत्तिवाक्याधीनसंशये कोट्योरिव | धर्मिणोपि पदजन्यैवोपस्थिति : कारणमिति पदजन्यत्वेनधर्मिज्ञानस्य विप्रतिपत्तिजन्यसंशये पृथक्कारणतायाआवश्यकत्वा त्तदन्यसंशयकारणतायां साधारणधर्मादिविषयकत्वांत वेवाधकाभावादितिवाच्यं संशये साधारणासाधारणधर्मवद्धर्मिज्ञानत्वेन हेतुताहयस्य तादृशधर्मज्ञानजन्यकोट्युपस्थितित्वेन हेतुताइयस्यच कल्पनापेक्षया तादृशतादृशधर्मविषयकत्वमनंतर्भाव्य धर्मिज्ञानहेतुताया स्तादृशतादृशधर्मवद्धर्मिज्ञानजन्यकोट्युपस्थितित्वेन हेतुताद्दयस्यच कल्पनास्फुटतरलाघवात् मैवं कोट्युपस्थितिकारणतायां ततत्कोटिसहचरितधर्मवर्मिविशेषविषयकज्ञानजन्यत्वनिवेशे धर्मभेदेनगुरुधर्मानवछिनकारणताया आनंत्यापत्ते स्तदपेक्षया धर्मिविशेषमनंवर्भाव्य तत्तत्कोटिसहचरितधर्मज्ञानजन्य कोट्युपस्थितित्वेन धर्मिविशेष मंतर्भाव्य साधारणधर्मवमिज्ञानत्वेन लघुशरीरेण हेतुत्वस्यच कल्पयितु युतत्वात् नचोपस्थितिकारणतावच्छेदकशरीरे धर्मिणोऽनंतर्भावपि कार्य्यतावच्छेदकीभूत संशयत्वस्य धर्मिविषयताघटितत्वात् कोट्युपस्थिते धर्मिभेदेनकारणताभेद आवश्यकइतिवाच्यं संशयत्वशरीरे धर्मिविशेषविषयताया विशेष्यतात्वेन किंचित्धर्मावच्छिन्नविशेष्यतात्वेनैव वासामान्यतोनिवेशनीयतया धर्मिभेदेनकारणताभेदा नावश्यकत्वादितिदिक् । पूर्वलक्षणोक्तातिप्रसंगवारणाय साध्यसंदेहजनकत्वस्य कोट्युपस्थितिविशेषणताया आवश्यकत्वा त्तदुपस्थापकपदानुपादाननिबंधनं तदनिवेशभ्रमं निराकुरुते। साध्यसंदेहेति प्रकृतंप्रकरणवशा सामान्यशब्दस्यविशेषपरतयाप्राप्त तथाच साध्यसंदेहजनिका या साध्योपस्थिति स्तजनकतावच्छेदिकासती तथाविधसाध्याभावोपस्थितिजनकतावच्छेदकीभूता या विषयता तदवच्छेदकतापर्याप्तधिकरणधर्मवत्वं तत्वमिति पूर्वोक्तदिशा लक्षणार्थोनिष्कर्षयितव्यः वन्हिसाहचर्य वन्यभाववढ्यावृत्तत्वावच्छिन्न धूमादिविषयतायाः पूर्वोपदर्शितरीत्या तथाविधसाध्यसाध्याभावोपस्थितिजनकतावच्छेदकत्वेपि तामा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90