Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir शिरो. केवलान्वयिसाध्यकवारणाय सत्यंतं व्यतिरेकिसाध्यकसहेतुवारणाय केवलान्वयीत्यादि पक्षत्वं साधकबाधकमानशून्यत्वं केवलान्वयिसाध्यकेऽपि बाधकमानप्रसिद्धिरुक्कैवेति न सत्यन्तवैयर्थ्यं निश्चितसाध्याभाववत्तन्मात्रवृत्तित्वे त्वसाधारण्य विरुद्ध इति साधारण्याद्यग्रहदशायामसांकर्यमिति वा हृदयम् । अव्यापकत्वादिति सद्धेतुवंच व्याप्तिनिश्चयदशायामेवेति भावः । अथेत्यादि पक्षातिरिक्तेन प्रतीतो निश्चितो व्याप्तिप्रहानुकूलोऽन्वयेन व्यतिरेकेन वा सहचारो यस्य स तथा सद्धेतुरेवेति तथाच लक्षणे पक्षातिरिक्तपदं सहचारग्रहस्थलमात्रोपदर्शकं न तु विशेषकमिति विशेषकत्वाभिप्रायेण दूषणयमाह तवत्यादि असाधारणे सपक्षव्यावृत्ते पक्षतादशायां शद्दोऽभिधेयः शद्दत्वादित्यादौ जलं नि:स्नेहं शीतस्पर्शवत्वादित्यादौ च रूपं जलं वा द्रव्यभिन्न गुणवत्वात् गुणकावृत्तिजातिमत्त्वादित्यादौ विरुद्धे चातिव्याप्तिरित्यर्थः ॥ दृषकतायामिति सहचाराभावस्यैव ज्ञानं विरोधि न तु तत्प्रत्यांशस्यापीति अर्थगत्येति अनैकांतिकशब्दार्थविवेचनेन प्रातिस्विकरूपेणैवप्रतिबंधकत्वमित्यवस्थितरित्यर्था । केचित्तु दूषकतायामसाधकतायाम् । अर्थेति अनेकांतिकशब्दार्थे उभयकोट्युपस्थापकत्वादौ साध्योपस्थापकत्वायंशस्य व्यर्थत्वादित्यर्थ इत्याहुः। विप्रतिपत्तिः पक्षसाध्याभावप्रतीतिः साध्ये पक्षनिष्ठाभावप्रतियोगित्वप्रतिपत्तिा आये केवलान्वयाति साध्याभावाप्रसिद्ध्या अव्याप्तिरित्यर्थ: । उभयत्र सर्वस्येति अतिव्याप्तरिति पाठे तन्मात्रवृत्तित्वं तत्वंव्याप्यवृनिकत्वं तदितरावृत्तित्वं वा आये केवलेति इदंच यथाकथंचियाप्तिग्रहदशायां हितीये सर्वस्येति व्याप्तीत्यादि यत्र * यस्येत्यर्थः तथाच हेत्वभिमतशदोपसंधानात् तद्धेतुकप्रकृतसाध्यसिद्धौपयिकव्याप्तिग्रहानुकूलोपसंहाराभावस्तस्यानुपसंहारित्वमित्यर्थलाभाड्यतिरेकिणि नातिव्याप्ति : । ननूपसंहारः सहचारः तन्निश्चयो वा आये तादृशस्याभावो निखिलप्रसिद्धानुपसंहार्यव्यापकः अतिव्यापकश्च रूपं द्रव्यभिन्नं गुणावत्त्वाद्गणकावृत्तिजातिमत्त्वादित्यादेः द्वितीये पुनरज्ञानरूपासिद्धिपर्य्यवसायी For Private and Personal use only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90