Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *मित्यविरोधिज्ञानविषयस्यापि हेत्वाभासविभाजकत्वे क्षतिविरहात् एतादृशाज्ञानेपीत्यादिनो (१) कविभाजकधर्मज्ञानस्या नुमित्य विरोधित्वकथन मकिंकर मित्याशंकामभिधायो पदर्शनेन निराकुरुते यद्रूपज्ञानमिति यद्पावच्छिन्नविषयकज्ञानमित्यर्थ : तदेव तद्रूपावच्छिन्नमेव एतेन निरुक्तपक्षधर्मताझान विषयतावच्छेदकधर्मवत्वस्यैव विभाजकतया साधारण्यादिरूप तादृशधर्मविषयकज्ञानस्य चा नुमितिविरोधितया तादृशनियमोपगमेपि तथाविधधर्मस्य न विभाजकत्वानुपपति रितिपरास्तं साधारण्यत्वादिनैव साधारण्यादिज्ञानस्य विरोधितया तादृशपक्षधर्मताज्ञान विषयतावच्छेदकत्वेन तस्य विभाजकत्वानुपपत्तेः एवंचै तदज्ञानेपीति मूलस्य निरुक्तविभाजकतावच्छेदकावच्छिन्नाज्ञानेपीत्यर्थः साधारण्यादिप्रेत्यकस्येत्यस्य साधारण्यत्वादिरूप प्रत्येक धर्मावच्छिन्नस्ये त्यर्थ इत्यवधेयं अन्यथा (२)तादृशरूपावच्छिन्नस्यापि विभाजकत्वे अतिप्रसंगः । अनुमितिकारणीभूतज्ञानविरोधि धर्मवत्वादिना अन्यतमधर्मवत्वादिनावा सव्यभिचारविरुद्धादीनामैक्यप्रसंगः मूले प्रतिबंधादित्यस्य निरुक्तसामान्यधर्म ज्ञानस्या प्रतिबंधकवा दितिशेषः तस्यैव दोषत्वा दित्यस्य प्रत्येकधर्मस्यैव विरोधित्वादित्यर्थः (३)तत्रैवायहेतुरिति नसत् दोषत्वाचे ति चकारासंगतेः तस्यैव दोषत्वा चेन्यस्य प्रथमतः तस्यैव दोषतयाउद्दावयितुमुचितत्वात् । नतु अनुगतधर्मस्येत्यर्थः एवंच दोष* विधया यादृशधर्मोभ्दाव्यते सएव विभाजकः उक्तानुगतधर्मस्यच दोषविषया ऽनुभ्दावनीय तया नतथात्वमिति हृदयं ननु तदज्ञानेदशायर्यो अन्यज्ञाना दनुमिति प्रतिबंधस्य तज्ज्ञानीयानुमित्यविरोधिता बीजत्वं मणिकता ऽभिहितं नघटते तथासति (१) टिप्पणी-सव्यभिचार सामान्य लक्षण ज्ञानस्य । (२) टिप्पणी-यादश धर्मा वच्छिन्न विषयक ज्ञानस्या नमित्य प्रतिबंधकलं ॥ (३) टिप्पणी-तत्र सामान्य धर्म ज्ञानस्या प्रतिबंधकत्वे अर्थ अस्यैव दोषत्वा दित्यादि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90